________________
षष्ठाध्यायस्य प्रथमः पादः ।।
न प्राजितीये स्वरे ॥ ६।१।१३५ ॥ [न] न प्रथमा सि ।
[प्राजितीये] जितात् प्राक् = प्राग्जितम्, तत्र भवः = प्राग्जितीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः, तस्मिन् ।
[स्वरे] स्वर सप्तमी ङि।
[गार्गीयाः] गर्ग । गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गर्गाणामिमे छात्राः = गार्गीयाः । 'यज्ञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) इत्यादिना यञ्लुप्प्राप्ताऽनेन निषिध्यते । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलोपः । प्र० जस् । यदि अत्र इदमर्थविवक्षैव क्रियते तच्छात्रविवक्षा तदा 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) इत्यकडेव स्यात् ।।
_ [वात्सीयाः] वत्सस्यापत्यानि वृद्धानि = वत्साः । 'गर्गादेर्य' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वत्सानामिमे छात्राः = वात्सीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलोपः । प्र० जस् ।
[आत्रेयीयाः] अत्रि । अत्रेरपत्यानि । 'इतोऽनिञः' (६।११७२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । अत्रेया(अत्री)णामिमे छात्राः = आत्रेयीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् । 'भृग्वङ्गिरस्-कुत्स-वसिष्ठ-गोतमा-ऽत्रेः' (६।१।१२८) इत्यनेन एयणलोपप्राप्तावनेन प्रतिषिध्यते ।
[आगस्तीयाः] अगस्त्य । ॐअगस्त्यस्यापत्यानि । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अगस्तीनामिमे छात्राः = आगस्तीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । कौण्डिन्या-ऽऽगस्त्ययोः कुण्डिना-ऽगस्ती च' (६।१।१२७) इत्यादिना अण्लुप्प्राप्ताऽनेन निषेधः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'सूर्या-ऽऽगस्त्ययोरीये च' (२।४।८६) यलोपः ।
[खारपायणीयाः] खरपस्यापत्यानि = खारपायणः । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । खरपायाणामिमे छात्राः = खारपायणीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'यस्कादेोत्रे' (६।१।१२५) इत्यनेन आयनण्लु प्राप्ताऽनेन निषिध्यते ।
[हारितीयाः] हरितस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।११४१) अप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । हरितानामिमे छात्राः = हारितीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'योऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) इत्यादिना अब्लुप्प्राप्ताऽनेन निषिध्यते । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् सर्वत्र ।
[अत्रीयः] अत्रि । अत्रेरपत्यानि = अत्रेयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० । 'भृग्वङ्गिरस्-कुत्स-वसिष्ठगोतमा-ऽत्रेः' (६।१।१२८) इत्यादिना एयणलोपः । अत्रिभ्यो हितः = अत्रीयः । 'तस्मै हिते' (७।१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) इलोपः ।
[अगस्तीयः] अगस्त्यस्यापत्यानि = अगस्तयः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'कौण्डिन्याऽऽगस्त्ययोः कुण्डिना-ऽगस्ती च' (६।१।१२७) अण्लोप:-अगस्तिरादेशश्च । अगस्तिभ्यो हितः । 'तस्मै हिते' (७।१।३५) ईयप्र० । 'समानानां०' (१।२।१) दीर्घः । ॐ मध्यमवृत्तौ - अगस्तेरपत्यानि ।