________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[यास्कलाह्याश्छात्राः] यस्कस्य इमे छात्राः = यास्काः । लह्यस्य इमे छात्राः = लाह्याः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यास्काश्च लाह्याश्च = यास्कलाह्याः । प्र० जस् । अत्र अणो लुप् न भवति । 'यस्कोदेर्गोत्रे' (६।१।१२५) इत्यत्र गोत्रे उत्पन्नस्येति प्रत्ययस्य विशेषणात् ।
[गार्गीवत्सवाजाः] गर्गस्यापत्यं वृद्धं स्त्री = गार्गी । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'यो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । वत्सस्य वाजस्य वाऽपत्यम् । 'गर्गादेर्यञ्' (६।११४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलोपः । गार्गी च वात्स्यश्च वाज्यश्च = गार्गीवत्सवाजाः । अनेन वत्स-वाजयोरेव यत्रो लुप्, न गार्गी इत्यत्र, तत्रास्त्रियामिति प्रतिषेधात् ।
[शैग्रवगौपवनाः] शिग्रु । शिग्रोरपत्यं वृद्धं = शैग्रवः । गोपवनस्यापत्यं वृद्धं = गौपवनः । 'विदादेव॒द्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ-औ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शैग्रवश्च गौपवनश्च = शैग्रवगौपवनाः । प्र० जस् । अत्र अश्यापर्णान्त-गोपवनादेरिति प्रतिषेधात् अजओ लुप् न भवति ।।
[बालाकिहास्तिदासयः] बलाकाया अपत्यं = बालाकिः । हस्तिदासस्यापत्यं = हास्तिदासिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) आ-अलुक् । बालाकिश्च हास्तिदासिश्च = बालाकिहास्तिदासयः । प्र० जस् । अत्र प्राग्भरतेति वचनात् अप्राग्भरते न भवति ।
यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवमर्थम् । अबह्वर्थं वचनम् । पूर्वसूत्रेषु बहुत्वे उत्पन्नस्य प्रत्ययस्य लुब् भवति । अत्र तु द्वन्द्वश्चेद्बहुत्वे वर्त्तते तदा प्रत्ययस्यैकत्वेऽप्युत्पन्नस्य लुप् न भवतीत्यर्थः ॥छ।।
वाऽन्येन ।। ६।१।१३३ ॥ [वा] वा प्रथमा सि । [अन्येन] अन्य तृतीया टा ।
[अङ्गवङ्गदाक्षयः, आङ्गवाङ्गदाक्षयः] आङ्ग-वाङ्ग पूर्ववत् । दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । आङ्गश्च वाङ्गश्च दाक्षिश्च = अङ्गवङ्गदाक्षयः - आङ्गवाङ्गदाक्षयः । अनेन विकल्पेन अण्लोपः, न तु इओ द्रिसंज्ञाकरणाभावात् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[गर्गवत्सौपगवाः, गार्ग्यवात्स्यौपगवाः ] गार्ग्यश्च वात्स्यश्च औपगवश्च = गर्गवत्सौपगवाः - गार्ग्यवात्स्यौपगवाः । अनेन विकल्पेन यञ्लुप् । प्र० जस् ।
[भृगुवत्साग्रायणाः, भार्गववात्स्याग्रायणाः] भृगोरपत्यं = भार्गवः । भार्गवश्च वात्स्यश्च आग्रायणश्च = भृगुवत्साग्रायणाः - भार्गववात्स्याग्रायणाः । अनेन विकल्पेन अण्-यञ्लुप् । प्र० जस् ।
[गर्गकश्यपगालवाः, गार्ग्यकाश्यपगालवाः] कश्यपस्यापत्यं वृद्धं = काश्यपः । 'विदादेर्वृद्धे' (६।११४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गलव । गलवस्यापत्यानि = गालवाः ।
क-कुरुभ्यः' (६।०६१) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गार्ग्यश्च काश्यपश्च गालवाश्च = गर्गकश्यपगालवाः - गार्ग्यकाश्यपगालवाः । अनेन यज्-अञ्लुप् ।
पूर्वेण नित्यं प्राप्ते विकल्पार्थं वचनम् ॥छ।।