________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । वाङ्खरयश्च भाण्डीरथयश्च = वङ्खरभण्डीरथाः । अनेन इञ्लुप् । प्र० जस् ।
[पहकनरकाः] पहकस्यापत्यानि = पाहकयः । नरकस्यापत्यानि = नारकयः । 'अत इज्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । पाहकयश्च नारकयश्च = पहकनरकाः । अनेन इञ्लोपः । प्र० जस् ।
[वकनखस्वगुदपरिणद्धाः] वकनखस्यापत्यानि = वाकनखयः । स्वगुदपरिणद्धस्यापत्यानि = स्वागुदपारिणद्धयः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वाकनखयश्च स्वागुदप(पा)रिणद्धयश्च = वकनखस्वगुदपरिणद्धाः । अनेन इब्लोपः । प्र० जस् ।
[लङ्कशान्तमुखाः ] लङ्कस्यापत्यानि = लाङ्कयः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शान्तमुखस्यापत्यानि = शान्तमुखयः । 'अत इञ्' (६१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । लाङ्कयश्च शान्तमुखयश्च = लङ्कशान्तमुखाः । अनेन इञ्लोपः । प्र० जस् । इति तिककितवादिः ॥छ।।
यादेस्तथा ॥ ६१।१३२ ॥ [यादेः ] दिरादिर्यस्य सः = यादिः, तस्य । [तथा ] तथा प्रथमा सि । 'बहुष्वस्त्रियाम्' (६।१।१२४) इत्यारभ्य ये केचन लोपनीयाः प्रत्ययास्ते यादयो ज्ञेयाः ।
[वृकलोहध्वजकुण्डीवृशाः] वृक एव = वार्केण्यः । 'वृकाट्टेण्यण्' (७।३।६४) टेण्यणप्र० → एण्य । वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । लोहध्वज एव = लौहध्वज्यः । 'पूगादमुख्यकाघ्यो द्रिः' (७।३।६०) ज्यप्र० → य । वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । कुण्डीवृस(श) एव = कौण्डीवृस्यः(श्यः) । 'वाहीकेष्वब्राह्मण-राजन्येभ्यः' (७।३।६३) ज्यटप्र० → य । वृ० औ । 'अवर्णेवर्णस्य' (७/४/६८) अलोपः । वार्केण्यश्च लौहध्वज्यश्च कौण्डीवृश्यश्च = वृकलोहध्वजकुण्डीवृशाः । अनेन त्रयाणां प्रत्ययानां लुप् । प्र० जस् ।
[अङ्गवङ्गसुह्माः ] अङ्गानां राजा, अङ्गस्य राज्ञोऽपत्यं वा = आङ्गः । वङ्गस्यापत्यं-वङ्गानां राजा वा । सुझानां राष्ट्रस्य राजा, सुह्मस्य राज्ञोऽपत्यं वा । 'पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण्' (६।१।११६) अण्प्र० → अ । वृद्धिः आ-औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । आङ्गश्च वाङ्गश्च सौह्मश्च = अङ्गवङ्गसुराः । अनेन अण्लोपः । प्र० जस् ।
[गर्गवत्सवाजाः] गर्गस्य वत्सस्य वाजस्य वाऽपत्यं = गार्ग्य:-वात्स्य:-वाज्यः । 'गर्गादेर्यञ्' (६।०४२) यप्र० → य । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । गार्ग्यश्च वात्स्यश्च वाज्यश्च = गर्गवत्सवाजाः । अनेन यञ्लोपः । प्र० जस् ।
[विदगर्गयस्काः ] विदस्यापत्यं वृद्धम् । “विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । गार्ग्यः पूर्ववत् । यस्कस्यापत्यं = यास्कः । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । वैदश्च गार्यश्च यास्कश्च = विदगर्गयस्काः । अनेन त्रयाणां प्रत्ययानां लुप् । प्र० जस् ।
श० म० न्या० - वाकनखयश्च स्वागुदपारिणद्धयश्चेति - अत्र स्वमते द्विपदो द्वन्द्वोऽन्येषां मते त्रिपद इत्यग्रे उक्तम् । तथा च वाकनखयश्च स्वागुदपरिणद्धयश्चेति रूपेण विग्रह उचितः स्वागुदपरिणद्धय इति - उभयपदादिवृद्धियुक्तः पाठः प्रामादिको वाऽनुशतिकादित्वकल्पनया वेति न निश्चिनुमः । त्रिपदे द्वन्द्वे च न कोऽपि सन्देहः ।