________________
षष्ठाध्यायस्य प्रथमः पादः ॥
९५
[तिककितवाः ] तिक । तिकस्यापत्यानि = तैकायनयः । “तिकादेरायनिज्' (६।१।१०७) आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७४|१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कितवस्यापत्यानि = कैतवायनयः । 'तिकादेरायनिञ्' (६।१।१०७) आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । तैकायनयश्च कैतवायनयश्च = तिककितवाः । अनेन द्वयोरायनिजोः लोपः ।
[उब्जककुभाः] उब्जस्यापत्यानि = औब्जयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (६।१।३१) वृ० औ । ककुभस्यापत्यानि = काकुभाः । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । औब्जयश्च काकुभाश्च = उब्जककुभाः । अनेन इञ्-अणोर्लोपः । प्र० जस् ।
[उरशलङ्कटाः] उरशस्यापत्यानि = औरशायनयः । 'तिकादेरायनिञ्' (६।१।१०७) आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । लङ्कटस्यापत्यानि = लाङ्कटयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । औरशायनयश्च लाङ्कटयश्च = उरशलङ्कटाः । अनेन आयनिञ्-इञोर्लोपः । प्र० जस् ।
[अग्निवेशदशेरकाः] अग्निवेशस्यापत्यानि वृद्धानि । 'गर्गादेर्यब्' (६।१।४२) यप्र० । 'यज्ञोऽश्या०' (६।१।१२६) यञ्लुप् । दशेरकस्यापत्यानि = दाशेरकयः । 'अत इञ्' (६।१।३१) इप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । समाससाधनीकृताः । अग्निवेशाश्च दाशेरकयश्च = अग्निवेशदशेरकाः । अनेन इञ्लोपः । प्र० जस् ।
[शण्डिलकशकृत्स्नाः (साः)] शण्डिलस्यापत्यानि = शण्डिलाः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० । 'योऽश्या०' (६।१।१२६) यञ्लुप् । प्र० जस् । कस(श) 'कृतैत् छेदने' (१३२५) कृत् । कशाः कृन्तति(न्ति) । 'ऋजि-रिषि-कुषि-कृति-व्रश्च्युन्दि-शृभ्यः कित्' (उणा० ५६७) कित् सप्र० । कस(श)कृत्सस्यापत्यानि = काशकृत्सयः । 'अत इञ्' (६।१।३१) इप्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । शण्डिलाश्च काशकृत्सयश्च = शण्डिलकस(श)कृत्साः । अनेन इब्लोपः । प्र० जस् ।
[उपकलमकाः] उपकस्यापत्यानि वृद्धानि = औपकायनाः । लमकस्यापत्यानि वृद्धानि = लामकायनाः । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ-आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । औपकायनाश्च लामकायनाश्च = उपकलमकाः । अनेन उभयत्र आयनण्लोपः । प्र० जस् ।
[भ्रष्ट्रककपिष्ठलाः] भ्रा(भ्र)ष्ट्रकस्यापत्यानि = भ्राष्ट्रकयः । कपिष्ठलस्यापत्यानि = कापिष्ठलयः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । भ्राष्ट्रकयश्च कापिष्ठलयश्च = भ्रा(भ्र)ष्टककपिष्ठलाः । अनेन इञ्लुप् । प्र० जस् । _ [कृष्णाजिनकृष्णसुन्दराः] कृष्णाजिनस्यापत्यानि = कार्णाजिनयः । कृष्णसुन्दरस्यापत्यानि = कार्णसुन्दरयः । उभयत्र 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४६८) अलुक् । कार्णाजिनयश्च कार्णसुन्दरयश्च = कृष्णाजिनकृष्णसुन्दराः । अनेन इञ्लोपः । प्र० जस् । __ [वङ्खरभण्डीरथाः ] अण (२५९) - रण (२६०) - वण (२६१) - व्रण (२६२) बण (२६३) - ‘भण शब्दे' (२६४) भण् । भणति यदपि तदपि भण्डी । 'पञ्चमात् डः' (उणा० १६८) डप्र० । तद्वत् रथो यस्य सः = भण्डीरथः । वङ्खरस्यापत्यानि = वाखरयः । भण्डीरथस्यापत्यानि = भाण्डीरथयः । 'अत इञ्' (६।१।३१)