________________
९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । मारसम्बन्धस्यापत्यानि = मारसम्बन्धयः । 'अत इब्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[भागवित्तयः ] भाग 'विद्लूंती लाभे' (१३२२) विद् । भागेन विद्यते-प्रतीयते स्म = भागवित्तः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'अघोषे०' (१।३।५०) द० → त० । भागवित्तस्यापत्यानि = भागवित्तयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[चैङ्कयः ] चिङ्कस्य चिङ्काया वा अपत्यानि = चैङ्कयः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अ-आलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[पौष्पयः] पुष्पस्य पुष्पाया वा अपत्यानि = पौष्पयः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अ-आलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[काशयः] काशस्यापत्यानि = काशयः । 'बाह्वादि०' (६।१।३२) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए। 'एदैतोऽयाय्' (१।२।२३) अय् ।
[शा(सा)न्तनवाः] सान्तनु । सान्तनोरपत्यानि = सान्तनवाः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । प्र० जस् ॥छ।।
वोपकादेः ॥ ६।१।१३० ॥ [वा] वा प्रथमा सि । [उपकादेः ] उपक आदिर्यस्य सः = उपकादिः, तस्मात् ।
[ उपकाः, औपकायनाः] उपकस्यापत्यानि वृद्धानि = उपकाः - औपकायनाः । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । प्रथमे अनेन विकल्पेन आयनण्लुप् । अन्यत्र वृद्धिः । प्र० जस् ।
[लमकाः, लामकायनाः] लमकस्यापत्यानि वृद्धानि = लमकाः - लामकायनाः । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । प्रथमे अनेन विकल्पेन आयनण्लुप् । अन्यत्र वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् ।
[औपकायन्यः स्त्रियः] उपकस्यापत्यानि वृद्धानि स्त्रियः । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'जातेरयान्त०' (२।४५४) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । प्र० जस् । 'इवर्णादेरस्वे स्वरे०' (१।२।२१) य० ।।
[पर्णक] पर्णकशब्दस्य ऋषिवचनस्य शिवादौ पाठात् क्रियावचनादिवेत्याह-अत एव पर्णानि करोतीति । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । यद्वा 'पर्णण हरितभावे' (१८७१) पर्ण । 'चुरादिभ्यो०' (३।४।१७) णिचप्र० । पर्णयतीति पर्णकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिच्लोपः ॥छ।।
तिककितवाऽऽदौ द्वन्द्वे ॥ ६।१।१३१ ।। [तिककितवाऽऽदौ] तिककितव आदिर्यस्य सः = तिककितवाऽऽदिः, तस्मिन् । [द्वन्द्वे ] द्वन्द्व सप्तमी ङि ।