________________
षष्ठाध्यायस्य प्रथमः पादः ॥
९३
[पान्नागारिः, पान्नागारी, पन्नागाराः] पन्नं-पतितमगारं-गृहं यस्य सः = पन्नागारः । पन्नागारस्यापत्यं-अपत्येअपत्यानि वा । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-औ । यत्र जस् तत्र अनेन इञ्लुप् । प्र० जस् ।
[मान्थरेषणिः, मान्थरेषणी, मन्थरेषणाः] मन्थरेषणस्यापत्यं-अपत्ये-अपत्यानि वा = मान्थरेषणिः, मान्थरेषणी, मन्थरेषणाः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'सि-औ । यत्र जस् तत्र अनेन इञ्लुप् । प्र० जस् ।
भरत-[यौधिष्ठिरिः, यौधिष्ठिरी, युधिष्ठिराः] युधिष्ठिरस्यापत्यं-अपत्ये-अपत्यानि वा = यौधिष्ठिरिः, यौधिष्ठिरी, युधिष्ठिराः । 'बाह्वादि०' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'सि-औ । यत्र जस् तत्र अनेन इब्लुप् । प्र० जस् ।।
[आर्जुनिः, आर्जुनी, अर्जुनाः] अर्जुन । अर्जुनस्यापत्यं-अपत्ये-अपत्यानि वा = आर्जुनिः, आर्जुनी, अर्जुनाः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'सि-औ । यत्र जस् तत्र अनेन इब्लुप् । प्र० जस् ।
[औद्दालकिः, औद्दालकी, उद्दालकाः] उद्दालकस्यापत्यम् । उद्दालकस्यापत्ये । उद्दालकस्यापत्यानि वा । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-औ । यत्र जस् तत्र अनेन इब्लुप् । प्र० जस् ।
[बालाकयः] बलाकाया अपत्यानि = बालाकयः । 'बाह्वादिभ्यो०' (६।१।३२) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[हास्तिदासयः] हस्तिदासस्यापत्यानि = हास्तिदासयः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ तौल्वलयः] तुल्वलस्यापत्यानि = तौल्वलयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[तैल्वलयः] तिल्वलस्यापत्यानि = तैल्वलयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[तैल्वकयः] तिल्वकस्यापत्यानि = तैल्वकयः । 'अत इञ्' (६।१।३१) । इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[यौधिष्ठिरायणः पुत्रः] युधिष्ठिरस्यापत्यं = यौधिष्ठिरिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । यौधिष्ठिरेरपत्यं = यौधिष्ठिरायणः । 'यजिञः' (६।१।५४) आयनणप्र० → आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स०
→ र० । पुत्र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०, इत्यत्र 'प्राच्येजोऽतोल्वल्यादेः' (६।१।१४३) इति लुप् न भवति । प्राच्या भरता द्वेधा-वैश्या राजानश्च । ततो वैश्येषु वाच्येषु लुप् भवति, न राजसु । उदीच्यभरता राजान एवोच्यन्ते, तेषु प्राग्ग्रहणान्न लुप् ।
[मारसम्बन्धयः] 'मृत् प्राणत्यागे' (१३३३) मृ । मरणं = मारः । 'भावा-ऽकों:' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् । सम् 'बन्धंश् बन्धने' (१५५२) बन्ध् । मारं सम्बध्नाति = मारसम्बन्धः ।