________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[कुत्साः ] कुत्सस्यापत्यानि = कुत्साः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । अनेन अण्लुप् । प्र० जस् । [वसिष्ठाः] वसिष्ठस्यापत्यानि = वसिष्ठाः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । अनेन अण्लुप् । प्र० जस् ।
[गोतमाः] गोतमस्यापत्यानि = गोतमाः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । अनेन अण्लुप् । प्र० जस् ।
[अत्रयः] अत्रि । अरपत्यानि = अत्रयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० । अनेन एयणलुप् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[भार्गव्यः स्त्रियः] भृगोरपत्यानि स्त्रियः = भार्गव्यः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'अणजेयेकण-नञ्' (२।४।२०) ङी । प्र० जस् । 'इवर्णादेरस्वे०' (१।२।२१) य० ।।
[आङ्गिरस्यः स्त्रियः] अङ्गिरसोऽपत्यानि स्त्रियः = आङ्गिरस्यः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० । वृद्धिः । 'अणजेयेकण-नञ्' (२।४।२०) ङी । प्र० जस् । 'इवर्णादेरस्वे०' (१।२।२१) य० ।
[आत्रेय्यः स्त्रियः] अत्रेरपत्यानि स्त्रियः = आत्रेय्यः । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अणजेयेकण-नञ्' (२।४।२०) ङी । प्र० जस् । 'इवर्णादेरस्वे०' (श२२१) य० ।
[भार्गवः] भृगोरपत्यं = भार्गवः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । शेषं पूर्ववत् ।
[आत्रेयः] अरपत्यम् = आत्रेयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते.' (१।३।५३) विसर्गः ।
[भार्गवाश्छात्राः] भृगोरिमे = भार्गवाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । प्र० जस् ।
[भृगुकुलम्, भार्गवकुलम् ] भृगु । भृगोरपत्यमपत्ये वा = भार्गवः - भार्गवौ । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । भार्गवस्य भार्गवयोर्वा कुलं = भृगुकुलम् - भार्गवकुलम् । 'द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेर्वा' (६।१।१३४) विकल्पेन अण्लोपः । सि-अम् ॥छ।।
__ प्राग्भरते बहुस्वरादिञः ॥ ६।१।१२९ ॥ [ प्राग्भरते ] प्राक(ङ्) च भरतश्च = प्राक(ग्) भरतम्, तस्मिन् । [बहुस्वरात्] बहवः स्वरा यत्र तत् = बहुस्वरम्, तस्मात् । [इञः] इञ् षष्ठी ङस् ।
[क्षरकलम्भिः , क्षैरकलम्भी, क्षीरकलम्भाः ] क्षीरमिश्रं कं लम्भयति । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । यद्वा करम्भो दधिसक्तवः (अमरकोषे-१८०२) ततः क्षीरप्रधानः करम्भः । ऋफिडात् 'ऋफिडादीनां डश्च लः' (२।३।१०४) लत्वम् । क्षीरं कमिव लम्भयति । 'कर्मणोऽण' (५।११७२) अण्प्र० → अ । लभ्यं क्षीरं = क्षीरकम्, तत् लम्भयति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० । क्षीरकलम्भस्यापत्यं-अपत्ये-अपत्यानि वा । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-औ । बहुवचने अनेन इञ्लुप् । प्र० जस् ।