________________
षष्ठाध्यायस्य प्रथमः पादः ॥
९१
कुण्डिनाः । 'गर्गादेर्यञ्' (६।१२४२) यप्र० → य । अत एव निर्देशात् 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) इत्यनेन पुंवद्भावाभावः । अन्यथा पुंवद्भावे सति ङीनिवृत्तौ यत्रि 'नोऽपदस्य तद्धिते' (७४।६१) इत्यादिना इन्लोपे कौण्ड्य इति स्यात् । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । यत्र जस् दृश्यते तत्र अनेन यञ्लुप्कुण्डिनी० → कुण्डिनदेशश्च । कुण्डिन्या अपत्यं वृद्धं = कौण्डिन्यः । कुण्डिन्या अपत्ये वृद्धे = कौण्डिन्यौ । एकवचने द्विवचने च अयं समासो ज्ञेयः ।
[आगस्त्यः , आगत्स्यौ, अगस्तयः] अग 'स्तम्भ सौत्रो धातः' (१९८५) स्तम्भ । अगं-पर्वतं स्तभ्नाति = अगस्त्यः । 'अग-पुलाभ्यां स्तम्भेडित्' (उणा० ३६३) डित् यप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अगस्त(स्त्य)स्यापत्यम् = आगस्त्यः । अगस्त(स्त्य)स्यापत्ये = आगस्त्यौ । अगस्त(स्त्य)स्यापत्यानि = अगस्तयः । अपत्ये 'ङसोऽपत्ये' (६।१।२८) अण्प्राप्तः, तद्बाधकः 'अत इञ्' (६।१।३१) इञ्, तस्यापि बाधकः 'ऋषि-वृष्ण्यन्धककुरुभ्यः' (६।१।६१) अण् आगच्छति अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-औ । यत्र जस् तत्र अनेन अण्लुप् - अगस्तिरादेशश्च । प्र० जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[आगस्तीयाः] अगस्त(स्त्य)स्यापत्यानि । 'ऋषि-वृष्ण्यन्धक०' (६।११६१) अण्प्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अगस्तीनामिमे = आगस्तीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'सूर्या-ऽऽगस्त्ययोरीये च' (२।४।८९) यलुक् ।
कुण्डिनीशब्दे प्रत्ययलुके(पि) आदेशविधाने न कश्चिद्विशेषः । प्रत्ययान्तादेशे हि कुण्डिनशब्दात् अदुसंज्ञकात् 'तस्येदम्' (६।३।१६०) इत्यणा भवितव्यम् । प्रत्ययस्य तु लुपि आदेशविधाने 'न प्राजितीये स्वरे' (६।१।१३५) इति लुप्रतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः ।
[कौण्डिन्यः स्त्रियः] कुण्डिन्या अपत्यानि स्त्रियः = कौण्डिन्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'यत्रो डायन्' (२।४।६७) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात्०' (२।४।८८) यलुक् । प्र० जस् । ‘इवर्णादेरस्वे०' (१।२।२१) य० ।
[आगस्त्यः स्त्रियः] अगस्त्य । अगस्त्यस्यापत्यानि स्त्रियः = आगस्त्यः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्-नञ्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'सूर्या-ऽऽगस्त्ययोरीये च' (२।४।८९) यलोपः । प्र० जस् । 'इवर्णादेरस्वे०' (१।२।२१) य० ॥छ।।
भृग्वङ्गिरस-कृत्स-वसिष्ठ-गोतमा-ऽत्रेः ॥ ६।१।१२८ ॥ [भृग्वरिस्कुत्सवसिष्ठगोतमाऽत्रेः] भृगुश्च अङ्गिराश्च कुत्सश्च वसिष्ठश्च गौ(गो)तमश्च अत्रिश्च = भृग्वङ्गिरस्कुत्सवसिष्ठगोतमाऽत्रि, तस्मात् ।
[भार्गवः, भार्गवौ, भृगवः] भृगु । भृगोरपत्यं = भार्गवः । भृगोरपत्ये = भार्गवौ । भृगोरपत्यानि = भृगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आर् । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । यत्र जस् तत्र अनेन अण्लुप् । प्र० जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।।
[अङ्गिरसः] अङ्गिरस् । अङ्गिरसोऽपत्यानि = अङ्गिरसः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । अनेन अण्लुप् । प्र० जस् ।