________________
९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । दशभिर्गार्गीभिः क्रीतः = दशगा(ग)र्गः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । 'क्यङ् - मानि०' (३।२।५०) पुंवद्भावः - ङीनिवृत्तिरित्यर्थः । यञ् पुनरेवागतः सो यञ् अनेन लुप् ।
[औत्साच्छात्राः] उत्सस्य इमे छात्राः = औत्साच्छात्राः । 'उत्सादेरञ्' (६।१।१९) अप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्र० जस् । छात्र प्र० जस् ।
[पौनर्भवाः ] पुनर्भू । पुनर्वा अपत्यानि अनन्तराणि = पौनर्भवाः । 'पुनर्भू - पुत्र - दुहितृ - ननान्दुरनन्तरेऽञ्' (६।१।३९) अप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्र० जस् ।
[पौत्राः] पुत्र । पुत्रस्यापत्यानि अनन्तराणि = पौत्राः । 'पुनर्भू - पुत्र०' (६।१।३९) अप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् ।
[दौहित्राः] दुहितृ । दुहितुरपत्यानि अनन्तराणि = दौहित्राः । 'पुनर्भू - पुत्र - दुहितृ०' ((६।१।३९) अप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'इवर्णादेरस्वे०' (१।२।२१) तृ० → त्र० । प्र० जस् ।
[ नानान्द्राः ] ननान्दृ । ननान्दुरपत्यानि अनन्तराणि = नानान्द्राः । 'पुनर्भू-पुत्र-दुहितृ-ननान्दु०' (६।१।३९) अप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'इवर्णादेरस्वे०' (१।२।२१) दृ० → द्र० । प्र० जस् ।।
[पारशवाः] पर-स्त्री । परात् = परपुरुषाद्भिन्ना स्त्री = परस्त्री । परस्त्रिया अनन्तरापत्यानि = पारशवः(वाः) । 'परस्त्रियाः परशुश्चाऽसावर्ये' (६।१।४०) अप्र० - परस्त्रीशब्दस्य परशुदेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । प्रथमा सि(जस्) । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[प्रियगााः ] प्रिय-गर्ग । गर्गस्यापत्यं = गार्ग्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र स्त्रियश्चेत् गार्ग्यः' । 'यो डायन् च वा' (२।४/६७) ङी । 'अस्य०' (२।४।८६) अलुक् । 'व्यञ्जनात्' (२।४।८८) यलोपः । प्र० जस् । 'इवर्णादेरस्वे०' (१।२।२१) य० । सांप्रतं वाक्यम्-प्रियो गार्यो गार्यो वा येषां ते = प्रियगार्याः । प्र० जस् । अत्र हि यजन्तस्य बहुविषयत्वात् लुप् प्राप्नोति ? नैवम् - न यजन्तं बहुषु, किं तर्हि समासः ? स च 'प्रत्ययः प्रकृत्यादेः' (७।४।११५) इति नियमात् यजन्तो न भवतीति लुप् न भवति ।
[प्रियगर्गः] गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्यब्' (६।१२४२) यप्र० । अनेन यञ्लुप् । प्रिया गर्गा यस्य सः = प्रियगर्गः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ॥छ।।
कौण्डिन्या-ऽऽगस्त्ययोः कुण्डिना-ऽगस्ती च ॥ ६।१।१२७ ॥ [कौण्डिन्याऽऽगस्त्ययोः] कौण्डिन्यश्च आगस्त्यश्च = कौण्डिन्याऽऽगस्त्यौ, तयोः = कौण्डिन्याऽऽगस्त्ययोः । षष्ठी ओस् ।
[कुण्डिनाऽगस्ती] कुण्डिनश्च अगस्तिश्च = कुण्डिनाऽगस्ती । प्रथमा औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) औ० → ई० । [च] च प्रथमा सि ।
[कौण्डिन्यः, कौण्डिन्यौ, कुण्डिनाः] कुण्ड । कुण्डमस्यास्ति । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी । कुण्डिन्या अपत्यानि वृद्धानि =