________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[हारितः, हारितौ, हरिताः ] हरितस्यापत्यं वृद्धं = हारितः । हरितस्यापत्ये वृद्धे = हारितौ । हरितस्यापत्यानि = हरिताः । 'विदादेवृद्धे' (६।१।४१) अप्र० । बहुत्वे अनेन अञ्लुप् । प्र० जस् ।
[धेनवः, धैनवौ, धेनवः] धेनु । धेनोरपत्यं वृद्धं = धैनवः । धेनोरपत्ये वृद्धे = धैनवौ । धेनोरपत्यानि = धेनवः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । यत्र जस् तत्र अनेन अञ्लुप् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । प्र० जस् ।
[गार्ग्यः] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।।
[वैदः] विदस्यापत्यं वृद्धं = वैदः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[विदाः] वैद मण्ड्यते । वैदस्य वैदयोर्वाऽपत्यानि युवानः = विदाः । 'अत इञ्' (६।१।३१) इञ्प्र० । 'जिदार्षादणिजोः' (६।१।१४०) इब्लुप् । अनेन अप्रत्ययलुप् । प्र० जस् ।
[विदाः] विद । विदस्यापत्यानि वृद्धानि = विदाः । 'विदादेर्वृद्धे' (६।११४१) अप्र० → अ । अनेन अब्लुप् ।
[वैदौ] विदानामपत्ये युवानौ = वैदो । 'विदादेव॒द्धे' (६।१२४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अत इञ्' (६।१।३१) इप्र० । 'जिदार्षादणिोः ' (६।१।१४०) इब्लुप । न च बहुषु इति लुप् न भवति । इप्रत्ययविषयेऽप्यत्रो लुप् न भवति । 'न प्राग्जितीये स्वरे' (६।१।१३५) इति निषेधात् ।
[विदाः] विदस्यापत्यानि = विदाः । 'विदादेर्वृद्धे' (६।१४४१) अप्र० । अनेन अब्लुप् । प्र० जस् ।
[विदाः] विदानामपत्यं युवानो माणवकाः । 'अत इञ्' (६।१।३१) इप्र० । 'जिदार्षादणिोः ' (६।११४०) इञ्लुप् ततो 'विदादेर्वृद्धे' (६।१।४१) अप्र० । बहुत्वे अनेन अञ्लुप् । प्र० जस् ।
[गार्ग्यः स्त्रियः] गर्ग । गर्गस्यापत्यानि स्त्रियः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । प्र० जस् ।।
[वैद्यः स्त्रियः] विदस्यापत्यानि वृद्धानि स्त्रियः = वैद्यः । 'विदादेर्वृद्धे' (६।४।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक् '(२।४।८६) अलुक् । प्र० जस् । __ [पञ्चगर्गः पटः] गर्गस्यापत्यानि वृद्धानि स्त्रियः = गार्ग्यः । 'गर्गादेर्य' (६।१।४२) यप्र० । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । पञ्चभिर्गार्गीभिः क्रीतः = पञ्चगा(ग)र्गः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । 'क्यङ् - मानि - पित्तद्धिते' (३।२।५०) पुंवद्भावः - ङीनिवृत्तिरित्यर्थः । यञ् पुनरेवागतः सो यञ् अनेन लुप् ।
[दशगर्गः पटः ] गर्गस्यापत्यानि वृद्धानि स्त्रियः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'यजो डायन्' (२।४।६७) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।