________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
गोपवनादिविदाद्यन्तर्गणः ।
[गार्ग्यः, गाग्यौं, गर्गाः] गर्गस्यापत्यं वृद्धं = गार्ग्यः । गर्गस्यापत्ये वृद्ध = गाग्यौँ । गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - औ । यत्र बहुवचनं जस् दृश्यते तत्र अनेन यञ्लोपः । प्र० जस् ।
[वात्स्यः, वात्स्यौ, वत्साः] वत्स । वत्सस्यापत्यं वृद्धं = वात्स्यः । वत्सस्यापत्ये वृद्धे = वात्स्यौ । वत्सस्यापत्यानि वृद्धानि = वत्साः । 'गदियञ्' (६।११४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - औ । बहुत्वे अनेन यञ्लुप् । प्र० जस् ।
[वैदः, वैदौ, विदाः] विदस्यापत्यं वृद्धं = वैदः । विदस्यापत्ये वृद्धे = वैदौ । विदस्यापत्यानि वृद्धानि = विदाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - औ । बहुत्वे अनेन अब्लुप् । प्र० जस् ।
[और्वः, औझे, उर्वाः] उर्व । उर्वस्यापत्यं वृद्धम् = और्वः । उर्वस्यापत्ये वृद्ध = औौं । उर्वस्यापत्यानि वृद्धानि = उर्वाः । 'विदादेवृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि - औ । बहुत्वे अनेन अञ्लुप् । प्र० जस् ।
[गर्गमयम् ] गर्ग । गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० । अनेन यञ्लुप् । गर्गेभ्य आगतम् । 'नृ - हेतुभ्यो रूप्य - मयटौ वा' (६।३।१५६) मयट्प्र० → मय । सि - अम् । _ [गर्गरूप्यम् ] गर्ग । गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्यब्' (६।१।४२) यप्र० । अनेन यञ्लुप् । गर्गेभ्य आगतम् । 'नृ - हेतुभ्यो रूप्य - मयटौ वा' (६।३।१५६) रूप्यप्र० । सि - अम् ।
[गौपवनाः] गोपवनस्यापत्यानि वृद्धानि = गौपवनाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् ।
[शैग्रवाः] शिग्रु । शिग्रोरपत्यानि वृद्धानि = शैग्रवाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्र० जस् ।
[बैन्दवाः] बिन्दु । बिन्दोरपत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अस्वयम्भुवोऽव् (७४/७०) अव् । प्र० जस् ।
[ताजमाः] ताजम । ताजमस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्र० जस् ।
[श्यामाकाः ] श्यामाकस्यापत्यानि वृद्धानि = श्यामाकाः ।
[श्यापर्णाः ] श्यापर्णस्यापत्यानि वृद्धानि = श्यापर्णाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्र० जस् ।
[माठराः] मठरस्यापत्यानि वृद्धानि । मतान्तरे 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्र० जस् ।
[आश्वाः ] अश्वस्यापत्यानि वृद्धानि । मतान्तरे 'विदादेर्वृद्धे' (६।११४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णवर्णस्य' (७४/६८) अलुक् । प्र० जस् ।
[आवतानाः] अवतानस्यापत्यानि वृद्धानि । मतान्तरे 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्र० जस् ।