________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[लौहध्वज्यौ] लोहध्वजावेव = लौहध्वज्यौ । 'पूगादमुख्यकाघ्यो द्रिः' (७।३।६०) ब्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । औ।
[लोहध्वजाः] लोहध्वजा एव = लोहध्वजाः । 'पूगादमुख्यकाघ्यो द्रिः' (७।३।६०) ब्यप्र० → य । अनेन ज्यलुप् । प्र० जस् ।
[पञ्चालनिवासः] पञ्चालस्य राज्ञोऽपत्यानि = पञ्चालाः , तेषाम् । 'राष्ट्र - क्षत्रियात्०' (६।१।११४) अप्र० । अनेन अब्लुप् । पञ्चालानां निवासः = पञ्चालनिवासः ।
[प्रियवङ्गः] वङ्ग । वङ्गस्य राज्ञोऽपत्यानि = वङ्गाः । 'पुरु - मगध०' (६।१।११६) अण्प्र० । अनेन अण्लुप् । प्रिया वङ्गा यस्य सः = प्रियवङ्गः ।
[अत्यङ्गः] अङ्गानतिक्रान्तः । बहुषु वर्तमानोऽप्रत्ययान्तः पञ्चालशब्द: ज्ञातव्यः -
[पञ्चालमयम् ] पञ्चालेभ्य आगतं = पञ्चालमयम् । 'नृ - हेतुभ्यो रूप्य - मयटौ वा' (६।३।१५६) मयट्प्र० → मय । सि - अम् ।
[पञ्चालरूप्यम् ] पञ्चालेभ्य आगतं = पञ्चालरूप्यम् । 'नृ - हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । सि - अम् ।
[लोहध्वजमयम् ] लोहध्वजा एव = लोहध्वजाः । 'पूगादमुख्यकाघ्यो द्रिः' (७।३।६०) ज्यप्र० । अनेन ज्यलुप् । लोहध्वजेभ्य आगतं = लोहध्वजमयम् । 'नृ - हेतुभ्यो रूप्य - मयटौ वा' (६।३।१५६) मयट्प्र० → मय । सि - अम् ।
[लोहध्वजरूप्यम् ] लोहध्वजेभ्य आगतं = लोहध्वजरूप्यम् । 'नृ - हेतुभ्यो रूप्य०' (६।३।१५६) रूप्यप्र० । सि - अम् । इत्यादौ अनुक्रमेण अञ् आम् निवास इत्यादि स्थिते अन्तरङ्गानपि विधीन् बहिरङ्गा लुग्(प्) बाधते इति बहुवचनस्य लुपि द्रेर्लुप् न स्यात् । यदि बहुवचनं निमित्तं तदा द्रेर्लुप् स्यात्, परं अत्र बहुवचनं निमित्तं ज्ञेयम् -
[पाञ्चालः ] पञ्चालस्य राज्ञोऽपत्यं = पाञ्चालः । 'राष्ट्र - क्षत्रियात्०' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[लौहध्वज्यः] लोहध्वज एव = लौहध्वज्यः । 'पूगादमुख्यकाञ्यो द्रिः' (७३।६०) ब्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[प्रियवाङ्गाः] वङ्गस्य राज्ञोऽपत्यं = वाङ्गः । 'पुरु - मगध०' (६।१।११६) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रियो वाङ्गो येषां ते = प्रियवाङ्गाः इत्यत्र न यन्तं बहुषु किन्तु समास इति लुप् न भवति ।।
_ [पाञ्चाल्यः] पञ्चालस्यापत्यानि स्त्रियः = पाञ्चाल्यः । 'राष्ट्र - क्षत्रियात्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । प्रथमा जस् ।
[लौहध्वज्याः स्त्रियः] लोहध्वज एव स्त्रीविशिष्टाः सङ्घाः = लौहध्वज्याः । 'पूगादमु०' (७।३।६०) ज्यप्र० → य । 'वृद्धिः स्वरे०' (७४|१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा जस् ।
[पञ्चपाञ्चालः] पञ्चभिः पाञ्चालीभिः क्रीतः = पञ्चपाञ्चालः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । 'क्यङ् - मानि - पित्तद्धिते' (३।२।५०) पुवंद्भावः - ङीनिवृत्तिरित्यर्थः ॥छ।।