________________
षष्ठाध्यायस्य प्रथमः पादः ॥
८५
[सौरमसी] सूरमसस्य राज्ञोऽपत्यं स्त्री = सौरमसी । सर्वत्र 'पुरु - मगध - कलिङ्ग - सूरमस - द्विस्वरादण' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक । 'अणजेयेकण् - नञ्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
प(पा)ञ्चालादयः प्राच्या राष्ट्रसरूपा क्षत्रियाः । भर्गादिः - [भार्गी ] भर्गाणां राष्ट्रस्य राज्ञी, भर्गस्य राज्ञोऽपत्यं वा स्त्री = भार्गी ।
[कारूपी] करूपाणां राष्ट्रस्य राज्ञी, करूपस्य राज्ञोऽपत्यं वा स्त्री । 'राष्ट्र - क्षत्रियात् सरूपाद्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'नुर्जातेः' (२।४।७२) ङी।
[यौधेयी] युधा । युधाया अपत्यं = यौधेयः । 'द्विस्वरादनद्याः' (६।१७१) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । ते एव शस्त्रजीव(वि)सङ्घः स्त्रीत्वविशिष्टो विवक्षितः । यौधेयादेरञ्' (७३।६५) अप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । 'अणजेयेकण्' (२।४।२०) ङी ।।
भरतोशीनरशब्दौ उत्सादिषु पठ्येते , तयोरिहोपादानात् सत्यप्यणपवादे चेत्यस्मिन् उत्साद्यजं बाधित्वा द्रिसंज्ञक एवाञ् भवतीति ज्ञाप्यते, तेन -
[भरताः] भरतानां राष्ट्रस्य राजानः = भरताः ।
[ उशीनराः ] उशीनराणां राष्ट्रस्य राजानः = उशीनराः । 'राष्ट्र - क्षत्रियात्०' (६।१।११४) अप्र० । 'बहुष्वस्त्रियाम्' (६१।१२४) अञ्लुप् । प्र० जस् ।
उत्साद्यबस्तु द्रिसंज्ञाया अभावान्न स्यात् । नापि 'योऽश्यापर्णान्त - गोपवनादेः' (६।१।१२६) इत्यादिना प्राप्तिः , राज्ञामगोत्रत्वात् ॥छ।।
बहुष्वस्त्रियाम् ॥ ६१।१२४ ॥ [बहुषु ] बहु सप्तमी सुप् ।।
[अस्त्रियाम् ] न स्त्री = अस्त्री, तस्याम् । 'नजत्' (३।२।१२५) न० → अ० । 'स्त्रीदूतः' (१।४।२९) ङि० → दाम्० → आम्० । 'स्त्रियाः' (२।१।५४) इय् ।
[पञ्चालाः] पञ्चालानां राष्ट्रस्य राजानः, पञ्चालस्य राज्ञोऽपत्यानि वा = पञ्चालाः । 'राष्ट्र - क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । अनेन अब्लुप् । प्र० जस् ।
[पुरवः] पुरूणां राष्ट्रस्य राजानः, पुरो राज्ञोऽपत्यानि वा = पुरवः । 'पुरु - मगध - कलिङ्ग - सूरमस - द्विस्वरादण' (६।१।११६) अण्प्र० । अनेन अण्लुप् । प्र० जस् ।
[अङ्गाः] अङ्गानां राष्ट्रस्य राजानः, अङ्गस्य राज्ञोऽपत्यानि वा = अङ्गाः । 'पुरु - मगध - कलिङ्ग - सूरमस - द्विस्वरादण्' (६।१।११६) अण्प्र० । अनेन अण्लुप् । प्र० जस् ।
[लौहध्वज्यः] लोहध्वज । लोहध्वज एव = लौहध्वज्यः । 'पूगादमुख्यकाञ्यो द्रिः' (७।३।६०) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।