________________
स्याद्वादात्मक सप्तभंगात्मकाने कान्तवादसिद्धि :
परम्परविरुद्धधर्माणां समानाधिकरणस्यासंभाव्यमानत्वेन कथं प्रमाणप्रतिपन्नार्थानां तदात्मकत्वं प्रतीतिविरोधात्, एकांतस्वरूपोपलब्धे• श्च इति चेन्न पदार्थानामनेकान्तात्मकत्वस्य श्रनुमानादिप्रमाणप्रतिपन्नत्वेन सर्वथैकान्तस्वरूपानुपलब्धेः । तथा चानुमानम् नास्ति वस्तुनि सर्वर्थं कान्तत्वम्, अनेकांतात्मकत्वान्यथानुपपत्तेः । ननु किमिदमने कान्तात्मकत्वं, मलाद्वस्तुनि सर्वथैकान्ताभावः साध्यते इति चेदुच्यते । सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वं एकानेकरूपत्वं नित्यानित्यरूपत्थमित्येथमादिकमनेकांतात्मकत्वम् ।
7
तत्साधकानुमानप्रयोगः - सर्वमनेकांतात्मकत्वं सत्त्वात् । यन्नानेकांनात्मकं तन्न सत् यथा गगनारविंदमिति । ननु यद्यपि श्ररविन्दं गगने नास्त्येव तथापि सरस्यस्तीति, ततो न सत्त्वहेतुव्यावृत्तिः इति चेतहि तदेतदरविदाधिकरणविशेषापक्षया सदसदात्मकने कान्तमिति श्रन्वयदृष्टान्तत्वं भवतेव प्रतिपादितमिति सन्तोष्टव्यमायुष्मता । तो नयानां मुख्यत्वगौणत्वविवक्षाभ्यां निखिलवस्तुनि श्रनेकधर्म सामानाधिकरण्यमविरुद्धं सत् सिद्धिमध्यास्ते एव । “नयांतर विषय सदपेक्षाः सन्नया: ' इत्यभिधानात् ।
यथा सुवर्णमानयेत्युक्त े सति द्रव्यार्थिकनयाभिप्रायेण स्वर्णद्रव्यानयनचोदनायां कटकं कुण्डलं केयूरं चोपनयन्नुपनेता कृती भवति, स्वर्णरूपेण कटकादीनां भेदाभावात् । द्रव्यार्थिकनयमुपसर्जनीकृत्य प्रवर्तमानं पर्यायार्थिकनयमवलम्ब्य कुण्डलमानयेत्मुक्त न कटकादौ प्रवर्तते, कटकादिपर्यायस्य ततो भिन्नत्वात् । ततो द्रव्यार्थिकनयाभिप्रायेण स्वणं स्यादे
कहा जा सकता है और ये चारों सिद्धान्त जैनदर्शन की अपूर्वता एवं महत्ता के प्रतीन परिचायक हैं ।
( १३७ )