________________
१३१
१३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सिंहपुरे विष्णुराज-विष्णवोः पुत्रः कनककान्ति: श्रेयांसोऽशीतिधन्वोच्छ्रायश्चतुरशीतिलक्षवर्षायुष्क, एकविंशतिलक्षवर्षव्रतपर्यायो भावी, तस्य शतसागरोपमषट्षष्टिलक्षषड्विशतिसहस्रवर्षोनसागरोपमकोटिरन्तरम् । चम्पापुर्यां वसुपूज्य-जयात्मजो रक्तवर्णो वासुपूज्यो द्वासप्तत्यब्दलक्षायुर्धनुःसप्तत्युन्नतश्चतुःपञ्चाशद्वर्षलक्षव्रतपर्यायो भावी, तस्य चतुःपञ्चाशत्सागरोपमा अन्तरम् । काम्पील्यपुरे कृतवर्म-श्यामात्मजः सुवर्णवर्णो विमल: षष्टिवत्सरलक्षायुः, षष्टिधन्वोन्नतः, पञ्चदशवर्षलक्षव्रतपर्यायो भावी, तस्य त्रिंशत्सागरोपमा अन्तरम् । अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णवर्णोऽनन्तस्त्रिंशदब्दलक्षायुः, पञ्चाशद्धन्वोन्नतः, सार्धलक्षसप्तवर्षव्रतपर्यायो भावी, तस्य नव सागरोपमा अन्तरम् । रत्नपुरे भानुसुव्रतात्मजः सुवर्णवर्णो धर्मो दशाब्दलक्षायुः, पञ्चचत्वारिंशद्धन्वोच्छ्रायः, सार्धलक्षद्वयवर्षव्रतपर्यायो भावी, तस्य चतुःसागरोपमा अन्तरम् ।
गजपुरे विश्वसेना-ऽचिरासुतोऽब्दलक्षायुः शान्तिश्चत्वारिंशद्धनून्नतः, स्वर्णवर्णः, पञ्चविंशत्यब्दसहस्रव्रतपर्यायो भावी, तस्य च पल्यचतुर्भागत्रिकोनमब्धित्रयमन्तरम् । तत्रैव गजपुरे सूर-श्रियोः सुतः स्वर्णवर्ण: कुन्थुः पञ्चनवत्यब्दसहस्रायुः, पञ्चत्रिंशद्धनून्नतः, सार्धसप्तशताधिकत्रयोविंशतिसहस्राब्दव्रतपर्यायो भावी, तस्य चाऽन्तरं पल्यार्धम् । पुनस्तत्रैव गजपुरे देवी-सुदर्शनात्मजः स्वर्णवर्णश्चतुरशीत्यब्दसहस्रायुस्त्रिंशद्धनूनतिररनाथ एकविंशतिवर्षसहस्रव्रतपर्यायो भावी, तस्याऽब्दकोटिसहस्रोनपल्यतुर्यांशोऽन्तरम् । मिथिलायां कुम्भ-प्रभावतीपुत्रः पञ्चविंशतिधनून्नतिः, पञ्चपञ्चाशदब्दसहस्रायुर्नीलवर्णो मल्लिनाथ एकवर्षशतोनपञ्चपञ्चाशदब्दसहस्रव्रतपर्यायो भावी, तस्य च वर्षकोटिसहस्रकमन्तरम् । राजगृहे पद्मा-सुमित्रपुत्रः कृष्णवर्णः सुव्रतस्त्रिंशद्वर्ष
प्रथमं पर्व - षष्ठः सर्गः सहस्रायुर्धनुर्विशत्युन्नतिः, सार्धसप्तवर्षसहस्रव्रतपर्यायो भावी, तस्य चतुःपञ्चाशदब्दलक्षाण्यन्तरम् । ___तथा मिथिलायां वप्रा-विजयभूः स्वर्णवर्णो नमिनाथो दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः, सार्धवर्षसहस्रद्वयव्रतपर्यायो भावी, तस्य षड्वर्षलक्षाण्यन्तरम् । शौर्यपुरे शिवा-समुद्रविजयात्मजः कृष्णवर्णो नेमिनाथः सहस्रवर्षायुर्दशधनून्नतिः, सप्तशतवर्षव्रतपर्यायो भावी, तस्य पञ्चलक्षवर्षाण्यन्तरम् । वाराणस्यां वामा-ऽश्वसेनपुत्रः पार्श्वनाथः कृष्णवर्णो, नवहस्तप्रमाणः, शतवर्षायुः, सप्ततिवर्षव्रतपर्यायो भावी, तस्य सार्धसप्तशताधिकत्र्यशीतिवर्षसहस्राण्यन्तरम् । कुण्डग्रामे सिद्धार्थ-त्रिशलासुतो महावीरः स्वर्णवर्णः, सप्तहस्तप्रमाणो, द्वासप्तत्यब्दायुज्रचत्वारिंशदब्दव्रतपर्यायो भावी, तस्य सार्धवर्षशतद्वयमन्तरम् ।
एषु काश्यपगोत्रिणोऽष्टौ चक्रिणः स्वर्णवर्णा मोक्षगाः । तत्राऽजितकालेऽयोध्यायां सुमित्र-यशोमतीपुत्रः सार्धधन्वचतु:शतोच्छ्रायो, द्वासप्ततिपूर्वलक्षायुः सगरो भावी । श्रावस्त्यां भद्रासमुद्रविजयात्मजः पञ्चाब्दलक्षायुः, सार्धद्विचत्वारिंशद्धन्नतिर्मघवा, हस्तिनापुरे सहदेव्यश्वसेनपुत्रोऽब्दलक्षत्रयायुः सार्धेकचत्वारिंशद्धनून्नतिः सनत्कुमारश्च भाविनौ । एतौ धर्म-शान्त्योरन्तरे तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररनाथश्चैतेऽर्हन्तश्चक्रिणोऽपि च । हस्तिनापुरे तारा-कृतवीर्यसुत: सुभूमः षष्टिवर्षसहस्रायुर्धनुरष्टाविंशत्युच्छ्रितः, स चाऽर-मल्ल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां ज्वाला-पद्मोत्तरात्मजः पद्मस्त्रिंशद्वर्षसहस्रायुर्विंशतिधनूच्छ्रितः, काम्पील्ये मेरा-महाहरिपुत्रो हरिषेणो दशवर्षसहस्रायुः पञ्चदशधनून्नतिश्च, तौ द्वौ मुनिसुव्रत-नम्योविहरतोर्भविष्यतः ।