________________
१०२
पुरुष-गद्यात्मकसारोद्धारः
त्सवे सम्पन्ने सति स्नातो विहितबलिः कृतप्रायश्चित्तकौतुकमङ्गलो बहिः सभामण्डपप्राङ्गणं गत्वा तान् षोडश सहस्राण्यात्मरक्षकदेवताः सत्कृत्य विसृज्य च प्रासादवरमारूढो वैषयिकं सुखं भुञ्जानोऽस्थात् ।
ततस्तस्य चक्रिण आयुधागारे चक्रं छत्रमसिर्दण्डश्चैतानि चत्वार्ये केन्द्रियाणि रत्नानि जज्ञिरे । काकिणीचर्ममणयो नव- निधयश्च श्रीगृहेऽभवन् । तथा तस्य स्वपुर्यां सेनापतिर्गृहपतिः पुरोधा वर्धकिश्चेति चत्वारि नररत्नानि जातानि । वैताढ्यगिरेर्मूले गजाश्वरत्ने उदग्विद्याधरश्रेण्यां स्त्रीरत्नमप्युदपद्यन्त । एवं स दुःसहेन प्रतापेन सूर्य इव नयनानन्ददायिन्या मूर्त्या सोम इव समुद्र इवाऽ लब्धमध्यो, गङ्गादिभिर्जम्बूद्वीप इव चतुर्दशभिर्महारत्नैरशोभत । नवनिधयश्च तस्याऽनिशं पादाधस्था अभवन् । स सदा षोडशभिर्देवसहस्रैः पारिपार्श्वकैरावृतो, द्वात्रिंशत्सहस्रनृपोपासितो, नृपजनपदादीनां कन्यानां चतुष्षष्टिसहस्रैरनिशमरंस्त । तथा स चक्री त्रिषष्ट्यधिकत्रिशतसूपकारवरैः शोभते स्म ।
एवंभूत स भरतोऽष्टादशभि: श्रेणिप्रश्रेणिभिलिपिभिः पृथिवीतले नाभिभूरिव व्यवहारं प्रावर्त्तयत । तथा रथ- गज-वाजिनां चतुरशीतिलक्षैः, ग्रामपत्तीनां षण्णवतिकोटिभिर्विराजमानो, द्वात्रिंशतो जनपदसहस्राणां द्वासप्ततेः पुरवरसहस्राणां सहस्रोनद्रोणमुखलक्षस्याऽष्टचत्वारिंशत्पत्तनसहस्राणां कर्बटानां मडम्बानां च चतुर्विंशतिसहस्रसङ्ख्यानां, विंशतिसहस्राणामाकराणां, षोडशखेटसहस्राणां चतुर्दशसम्बाधसहस्राणां षट्पञ्चाशदन्तरद्वीपानाम्, एकोनपञ्चाशतः कुराज्यानां भरतक्षेत्रमध्येऽन्येषामपि च शासिता स विनीतायां स्थितोऽखण्डं राज्यं कुर्वन्नभिषेकोत्सवप्रान्ते स्वीयान् स्मर्तुं प्रववृते ।
ततो निजपुरुषाः षष्टिं वर्षसहस्राणि विरहाद् दर्शनोत्सुकान् निजान् राज्ञोऽदर्शयन् । ततः कृशां म्लानां प्रणष्टलावण्यां
प्रथमं पर्व - चतुर्थः सर्गः
१०३
पाण्डुक्षामकपोलां बाहुबलिनः सोदरां सुन्दरी नामग्राहं स्वपुरुषैर्दर्श्यमानां स ददर्श । तां तथाविधां प्रेक्ष्य भरतः सकोपं स्वायुक्तानवोचत्-“किं मद्गृहे भक्ष्यान्न-पान - फलादीनि न सन्ति ? येनैषा सुन्दरीदृशीं दशां गता ? यद्येषा रोगिणी चेद् भिषग्वरा ना सन्ति ? ओषधयो हिमाद्रावपि न लभ्यन्ते किम् ? दरिद्रतनयामिवेमां क्षामां पश्यन् वैरिभिरिव भवद्भिर्वञ्चितोऽस्म्यहम् ।
ततस्ते प्रणम्य भरतं प्रोचुः - "देवस्य सर्वमप्यस्ति, किन्तु देवस्य दिग्विजयगमनादारभ्यैषा प्राणत्राणाय केवलमाचाम्लान्येव कुरुते । प्रव्रज्यानिषेधकालाच्चाऽऽरभ्यैषा भावतः संयतैव तिष्ठति" । ततः प्रविव्रजिषसी" ति भरतेन पृष्टा सा " एवमेवे "त्युदतरत् । ततो भरतोऽवोचत्- "प्रमादेनाऽऽर्जवेन वाऽहमस्या इयत्कालं व्रतविघ्नकरोऽभवम् । असावेव तातपादानामनुरूपमपत्यं, विषयासक्ता वयं के ? आयुर्विनश्वरतरं जानन्तोऽपि जना विषयैषिणो भवन्ति, अनेनाऽऽयुषा मोक्षसाधनमेव साधु" । ततो मुदितेन राज्ञा व्रतायाऽनुज्ञाता सा तपः कृशाऽप्यकृशेव जाता ।
अत्रान्तरे च विहारक्रमादष्टापदगिरावागत्य देवकृते समवसरणे देशनां कुर्वाणमृषभस्वामिनं ज्ञात्वा गिरिपालका द्रुतं भरताय विज्ञपयामासुः । तदाकर्ण्य प्रमुदितो नृपो गिरिपालकाय पारितोषिकं दत्त्वा "जिनेश्वरो विहरन्निहाऽऽजगामेति सुन्दरीमुवाच । तथा तस्या निष्क्रमणाभिषेकं कारयामास । सा सुन्दरी कृतस्नानविलेपना वस्त्रे परिधायाऽलङ्कारान् मुमोच । तथा याचकेभ्यो यथेष्टं प्रदाय श्वेतवस्त्रोपशोभिता सा शिबिकामारुरोह । ततो नरेन्द्रेण सपरिच्छदेनाऽनुगम्यमाना, चामराभ्यां वीज्यमाना, श्वेतच्छत्रोपशोभिता, वैतालिकैः स्तूयमाना, भ्रातृजायाभिर्गीतमङ्गला, वरस्त्रीभिरुत्तार्यमाणलवणा, पूर्णपात्रैविराजमाना सुन्दरी अष्टापदगिरिं