________________
१००
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अयोध्यायां च पौरैः पदे पदे तोरणानि बबन्धिरे । कुङकु मगन्धसलिलैः पथि पथि सेकश्चक्रे । स्वर्णस्तम्भैर्मञ्चा विदधिरे । एवंविधैः प्रकारैर्हट्टशोभा सम्पादिता । ततो नगरी प्रवेष्टुकामो नृपो गजरत्नं समारुह्मैकेनाऽऽतपत्रेण धवलेन विराजितश्चामरद्वयवीजितः, सुसूक्ष्मवस्त्राणि वसानो, विचित्ररत्नालङ्कारैरलङकृतो, नृपैः परिवारितो, वैतालिकैर्जयजयारावपूर्वकं कीर्त्यमानो, माङ्गल्यतूर्यैः कृतमाङ्गलिकध्वनिः प्रचचाल सः । चिरायातं तं द्रष्टुं ग्रामादिभ्य आगतैर्जनैः सोत्सुकं वीक्ष्यमाणः, कैश्चिन्मुदा स्तूयमानः; कैश्चिच्चामरैरिवाऽञ्चलैीज्यमानः, कैश्चिन्मस्तकस्थाञ्जलिभिर्वन्धमानः,कैश्चित् प्रदीयमानाशी:, कैश्चित् प्रणम्यमानः, कैश्चित् समयेमाणफलपुष्पो भरतश्चतुरां तां पुरीं पूर्वद्वारेण प्रविवेश।।
तदानीं प्रत्येकमपि मञ्चेषु वाद्यान्यवाद्यन्त, सङ्गीतानि चक्रिरे, मुदिताभिः पौरस्त्रीभिर्लाजाः प्रचिक्षिपिरे । पोरैः पुष्पमाल्यानि ववषिरे, समीपमागत्य फलादीनि समर्पयाञ्चक्रिरे च । तथा मञ्चयोर्मञ्चयोरन्तर्गजरत्नं स्थिरीकुर्वन् प्रवरयोषिद्भिः कर्पूरारात्रिकेणाऽभिनन्द्यमानः सर्वसामग्रीसम्भृतं पितुः प्रासादं भरतः समासदत् । तदङ्गणे वेत्रिदत्तहस्तो गजरत्नादवतीर्य षोडश सहस्राणि स्वाधिष्ठायकदेवता: सम्पूज्य विसृज्य च द्वात्रिंशतं नृपसहस्राणि चमूपति पुरोहितं गृहपति वर्धकिं त्रिषष्ट्यधिकशतत्रयं सूदांश्च व्यसृजत् । तथा श्रेष्ठिनोऽष्टादशश्रेणिप्रश्रेणीदुंगपालान् सार्थवाहांश्च व्यसृजत् । स्त्रीरत्नेन सुभद्रया द्वात्रिंशत्सहस्राभिर्नृपकन्याभिस्तावतीभिर्जनपदाग्रणीकन्यकाभिश्चाऽऽवृतो नाटकाद्युत्सवपूर्वकं नृपः प्रासादं प्राविशत् । तत्र सिंहासने क्षणं प्राङ्मुखः स्थित्वा काश्चित् सङ्कथाः कृत्वा पश्चात् स्नात्वा भोजनं कृतवान् । एवं नाटकैः सङ्गीतैरन्यैश्च विनोदैः कमपि कालं योगैर्योगीव स भूपतिर्निनाय ।
प्रथमं पर्व - चतुर्थः सर्गः
अथ सुर-नरा भक्त्या तं विज्ञपयामासुः-"षटखण्डा भूस्त्वयाऽसाधि, अधुनाऽस्माभिः क्रियमाणं ते महाराज्याभिषेकमनुमन्यस्व" । राज्ञा "तथे" त्यनुज्ञाताः सुरा नगर्या बहिः पूर्वोदग्दिशि मण्डपं व्यधुः । तथा हदादिभ्यो नानातीर्थेभ्यश्च जलं सर्वोषधीमत्तिकाश्चाऽऽनयन् । भरतश्च पौषधशालायां गत्वाऽष्टमतपोऽग्रहीत् । अष्टमान्ते च वारणारूढः सपरिजनो गत्वोन्नतमभिषेकमण्डपमन्तःपुरेण सह प्रविश्य सिंहासनं स्नानपीठं च प्रदक्षिणीकृत्य स्नानपीठमारुह्य तत्रत्यरत्नसिंहासने प्राङ्मुख उपाविशत् । द्वात्रिंशत्सहस्राणि नपाश्च तं पीठमारुह्य बद्धाञ्जलिपुटा वन्दमाना नातिदूरे भद्रासनेषु तस्थुः। सेनापत्यादयश्चाऽपि तं पीठमारुह्य स्वोचितेष्वासनेषु समासीना बद्धाञ्जलिपुटास्तस्थुः ।
ततो नृपस्याऽभिषेकायाऽऽभियोगिकदेवाः समागत्याऽऽदीश्वरं वासवा इव ते भरतं स्वाभाविकैवैक्रियैश्च रत्नकलशैरभिषिषिचुः । ततो द्वात्रिंशत्सहस्त्राणि ते नृपाः शुभे क्षणे भरतमभिषिच्य "जय, विजयस्वे"ति च वर्द्धयामासुः । सेनापत्यादयश्चाऽपि स्तुवन्तो जलैस्तमभ्यषिञ्चन् । ततस्ते गोशीर्षचन्दनरसैरनुलिप्य मूर्धाभिषिक्ताग्रेसरस्य भरतस्य मूनि शक्रप्रदत्तमृषभस्वामिनो मुकुटं निदधुः । ततः कुण्डले मौक्तिकहारार्धहारौ देवदूष्ये वाससी च परिधाप्य स्त्रजं च कण्ठे प्रचिक्षिपुः । ततोऽमूल्यवस्त्रादिभूषितो भरतो वेत्रिपुरुषैराह्मय्याऽऽयुक्तपुरुषान् “यूयं हयमारुह्य प्रतिपथं पर्यट्येमां विनीतानगरीमशुल्कामदण्डामविशद्भटां द्वादशवर्षं यावद् नित्यप्रमोदां कुरुते"त्यादिशत् । कार्यसिद्धिषु चक्रिण आज्ञा पञ्चदशं रत्नमिति तेऽधिकारिणस्तत्क्षणं तथा चक्रुः ।
ततस्तस्माद् रत्नसिंहासनादुत्थाय नृपैः सह स भरतः स्नानपीठादुत्तीर्य गजरत्नमारुह्य निजं प्रासादमागत्य स्नानगृहे निर्मलैस्तोयैः स्नात्वाऽष्टमभक्तान्तपारणं चकार । ततो द्वादशवार्षिके तस्मिन्नभिषेको