________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
नन्दीश्वरे जिनार्चापरोऽहम् । इयं चैकाकिनी दीना च्यवमाना स्वयम्प्रभेति मन्ये । तयैव जातिस्मरणेनेदं सर्वं लिखितमित्यनुमिनोमि । न ह्यन्यानुभूतमन्यो जानाति" । तदा पण्डिता 'आम्' इत्युक्त्वा ततः श्रीमत्याः समीपमागत्य सर्वं वृत्तान्तमवोचत्। ततः प्रमुदिता श्रीमती पण्डितामुखात् सर्वं वृत्तान्तं पित्रे कथयामास । ततः प्रमुदितो वज्रसेनो वज्रजङ्घमाहूय समुद्रो लक्ष्मीं विष्णुनेव तेन कुमारेण श्रीमतीं परिणाययामास । ततस्तौ वज्रसेनानुज्ञातौ लोहागर्लपुरं जग्मतुः । ततः स्वर्णजङ्घो नृपो योग्यं वज्रजङ्घ राज्ये निवेश्य स्वयं दीक्षामुपाददे । वज्रसेनोऽपि पुष्कलपालनाम्ने स्वपुत्राय निजां राज्यलक्ष्मीं प्रदाय प्राव्राजीत्, तीर्थकरश्चाऽजनि । वज्रजङ्घोऽपि कान्तया श्रीमत्या सह कुञ्जरः पङ्कजमिव लीलया राज्यधुरमूहे । क्रमाद् भोगान् भुञ्जानयोस्तयोः सुतः समुदपद्यत ।
अथ पुष्कलपालेन शासनमवमन्यमानानां द्वेषिणां सीमसामन्तानां साधनायाऽऽहूतो वज्रजङ्घः श्रीमत्या सहैव प्रतस्थे । स च गच्छन्नर्धमार्गे 'पुरो महाशरवणे दृग्विषो महाहिरस्ती' ति पान्थैर्विज्ञप्तोऽन्येन मार्गेण पुण्डरीकिण्यामागत्य सर्वसामन्तमण्डलं पुष्कलपालाज्ञावशवर्त्तिनं चकार । तत्र पुष्कलपालेन विहितां सत्क्रियां स्वीकृत्य तदनुज्ञातः श्रीमत्या सह प्रतिनिवर्त्तमानः सो मार्गे शरवणे "द्वयोरनगारयोः केवलज्ञानमुत्पेदे तत्र देवागमन प्रभावाद् दृग्विषः सर्पो निर्विषोऽजनी" त्यध्वन्यैर्निवेदितस्तत्रैव निजसोदरयोस्तयोः केवलिनोः सागरसेन- मुनिसेनाख्ययोर्महामुन्योदर्शनाय तस्थौ । देववृन्दवृतौ देशनां कुर्वाणौ तौ मुनी भक्त्या सभार्योऽवन्दत सः । देशनान्ते चाऽशन-पानादिभिस्तौ मुनी प्रत्यलाभयदचिन्तयच्च-‘“निर्ममावेतौ सोदरौ मुनी धन्यौ, अहं त्वीदृशो नाऽस्मि, गृहीतव्रतस्य पितुरनुगामिनावेतावेवौरसौ पुत्रौ । अहं तु क्रीतपुत्र
२६
प्रथमं पर्व प्रथमः सर्गः
२७
इवाऽस्मि । अधुनाऽपि न किञ्चिद् गतं, यदि प्रव्रजामि । प्रव्रज्या हि गृहीतमात्राऽपि दीप इव तमोनाशाय जायते । तत इदानीं पुरीं गत्वा राज्यं पुत्राय दत्त्वा च हंसस्य गतिं हंस इव पितुर्गतिं श्रयिष्ये" । एवं बहुशश्चिन्तयन् स श्रीमत्या सह लोहार्गलपुरं प्राप । तदा च राज्यलुब्धोऽस्य पुत्रो धनैः प्रकृतिमभेदयत् । प्रातः स्वयं व्रतादानं सुतस्य च राज्यदानं चिन्तयित्वा निशायां प्रसुप्तयोः पित्रोः सतो: पुत्रो गृहे विषधूपं धूपयामास । तद्विषधूपधूमैर्ब्राणप्रविष्टैस्तौ दम्पती मृत्युमापतुः।
as als
अथ तावुत्तरकुरुषु युगलिकरूपेणोत्पन्नौ क्षेत्रानुरूपमायुः पूरयित्वा विपद्य सौधर्मे सुरौ जातौ । ततो वज्रजङ्घजीवश्च्युत्वा जम्बूद्वीपे विदेहेषु क्षितिप्रतिष्ठिते नगरे सुविधेर्वैद्यस्य पुत्रो जीवानन्दाख्योऽभूत् । तदैव तस्मिन्नगरे चत्वारोऽन्येऽपि बालकाः समुत्पन्नाः । तत्रेशानचन्द्रस्य राज्ञः कनकवतीनामभार्यायां महीधरनामा, शुनाशीरनाम्नो मन्त्रिणो लक्ष्मीनामपत्यां सुबुद्धिनामा, सार्थेशस्य सागरदत्तस्याऽभयमतीनामभार्यायां पूर्णभद्रनामा, धनाख्यश्रेष्ठिनः शीलमतीनामभार्यायां गुणाकरनामा च पुत्रोऽजनि । सर्वे ते लाल्यमानाः क्रमशो ववृधिरे । श्रीमतीजीवश्चाऽपि तत्रैव नगरे ईश्वरदत्तस्य श्रेष्ठिनः केशवनामा पुत्रो जातः । पञ्चेन्द्रियमनांसीव मिलितास्ते षड् मित्राणि जज्ञिरे । तेषु जीवानन्द आयुर्वेदज्ञो वैद्येषु सूर्य इवाऽग्रणीर्बभूव ।
एकदा तस्य गृहे पृथ्वीपालनाम्नो नृपस्य सुतो गुणाकरनामा राज्यं त्यक्त्वा गृहीतव्रतस्तपसा कृशोऽकालापथ्यभोजनात् कुष्ठाभिभूतः षष्ठस्य पारणे समाययौ । तदा महीधरो जीवानन्दं सपरिहासमुवाच"व्याधि-भेषजयोर्ज्ञानं चिकित्साकौशलं च तवाऽस्ति । केवलं कृपा नाऽस्ति । रुग्णं गृहागतमीदृशं पात्रं चेदुपेक्षसे, धिक् ते परिश्रमम्"।