________________
mmmmmmmmmmmmmm
A ARANA
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जिनेन्द्रप्रतिमापूजां कर्तुं यास्यति, तदाज्ञया त्वमप्येहि" । ततः स्वभाग्यं प्रशंसन् ललिताङ्गः सभार्यः प्रमुदितः प्रतस्थे । नन्दीश्वरे गत्वा च शाश्वतीरर्हत्प्रतिमा आनर्च । ततोऽप्यन्येषु तीर्थेषु गच्छन् क्षीणायुश्चुच्युवे।
ततो जम्बूद्वीपे पूर्वविदेहेषु सीतानद्या उत्तरे तटे पुष्कलावत्यां विजये लोहार्गलपुरे सुवर्णजयनृपस्य लक्ष्मीनाम्न्यां पन्यां पुत्ररूपेणाऽजनि सः । पितरौ च तस्य वज्रजङ्घ इति नाम चक्रतुः ।
अथ स्वयम्प्रभाऽपि धर्मपरायणा कियता कालेन चुच्युवे । तत्रैव पुष्कलावत्यां विजये पुण्डरीकिणीपुरे वज्रसेननृपस्य गुणवतीनाम्न्यां पल्यां पुत्रीरूपेणोदपद्यत । पितरौ च श्रीयुक्तायास्तस्याः श्रीमतीति नाम चक्रतुः । तत्र सा धात्रीभिर्लाल्यमाना क्रमशो वृद्धि प्राप । कियता कालेन कान्तिमती सा तारुण्यं प्राप । एकदा क्रीडया सर्वतोभद्रप्रासादमधिरूढा सा मनोरमोद्याने महामुनेः सुस्थितस्य केवलज्ञाने समुत्पन्ने सति समागच्छतः सुरान् ददर्श । 'मयेमे क्वाऽपि दृष्टा' इत्येवं चिन्तयन्ती सा पूर्वजन्म स्मृतवती । तेन मूच्छिता च तत्कालं भूमौ निपपात । सखीभिः कृतेन शीतोपचारेण लब्धसंज्ञा सा समुत्थिता च चित्तेऽचिन्तयत्-"मम पूर्वजन्मपतिललिताङ्गः सम्प्रति क्व जातोऽस्ति ? तदज्ञानमतीव पीडाकरं मम । स एव मम हृदयेश्वरो नाऽन्यः । यदि तेन नाऽऽलपामि, तदाऽन्येन सहाऽऽलप्याऽल"मिति सा मौनं गृहीतवती । सखीभिराधिदैविकादिदोषशङ्कया कृतोपचाराऽपि सा मौनं न मुमोच । प्रयोजने च सति साऽक्षराणि लिखित्वा भ्रू-हस्तादिसंज्ञया वा परिजनं नियोजयति स्म।
एकदा क्रीडोद्याने गतां तां श्रीमतीमेकान्तेऽवसरं प्राप्य पण्डिताख्या धात्री कथयामास-"त्वं मम प्राणा इवाऽसि, तव
प्रथमं पर्व - प्रथमः सर्गः चाऽहं मातेवाऽस्मि । आवयोरन्योन्यमविश्वासकारणं नाऽस्ति । तस्माद् मौनधारणकारणं कथय । तव दु:खं ज्ञात्वा तत्प्रतीकारायाऽहं यतिष्ये। न ह्यज्ञातस्य रोगस्य चिकित्सा कर्तुं शक्यते" । ततो विश्वस्ता श्रीमती पूर्वजन्मभवं सर्वं वृत्तान्तं यथावत् कथयामास । उपायपण्डिता पण्डिताऽपि सर्वं तद् वृत्तान्तं पटे विलिख्य दर्शयितुं शीघ्रं बहिर्ययौ । तदा वज्रसेनस्य चक्रिणो वर्षग्रन्थौ बहवो नृपाः समागताः । पण्डिता च राजमार्गे तमालेख्यपटं विस्तार्य तस्थौ । अत्राऽवसरे दुर्दर्शननृपस्य पुत्रो दुर्दान्तस्तत्र समाययौ । स च पटं प्रेक्ष्याऽलीकमूर्च्छया भूमावपतत् लब्धसंज्ञ इवोत्थितश्च । मूर्छाकारणं पृष्टश्च जनेन स सकपटमुवाच-"मम पूर्वजन्मचरितं पटे केनाऽप्यलिख्यत । तद् दृष्ट्वा मम जातिस्मरणमुत्पेदे । अहं ललिताङ्गोऽस्मि, मम देवी स्वयम्प्रभा, यदत्र पटे लिखितं सर्वं तत तथैवाऽस्ति" । तत: पण्डितया "कोऽयं सन्निवेशविशेष" इति पृष्टः स ऊचे-"एष मेरुः, इयं पुण्डरीकिणीपुरी" । पुन: पण्डितया मुने म पृष्टो विस्मृतमस्य नामेत्यब्रवीत् । पुनस्तया 'मन्त्रिपरिवृत्तः कोऽयं नृपः, तपस्विनी च केयमिति पृष्टोऽहं न वेद्यीत्युवाच सः । तदाऽयं मायावीति ज्ञात्वा तया स सोपहासं विसर्जितः क्वाऽप्यगात् ।
तदा वज्रजयोऽपि लोहार्गलपुरात् समायातश्चित्रलिखितं चरितं ददर्श, मुमूर्च्छ च । कृतशीतोपचारश्च लब्धसंज्ञः समुत्थितः जातिस्मरणं प्राप । 'कुतश्चित्रं दृष्ट्वा मूच्छितोऽसीति पण्डितया पृष्टश्चाऽब्रवीत्-"अत्र पटे सभार्यस्य मम पूर्वजन्मवृत्तान्तो लिखितोऽस्ति । तद् दृष्ट्वा मूच्छितो जातः । अयमैशानकल्पः, इदं श्रीप्रभविमानम्, एषोऽहं ललिताङ्गः, एषा मम प्रिया स्वयम्प्रभा । इयं निर्नामिका, अयं युगन्धरमुनिः । इयं पुनर्जाता स्वयम्प्रभा । अयं