________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-२ वोत्साहे थो हश्च रः ॥ २.४८ ॥ [उच्छाहो ] । उत्साह । ह्रस्वात् थ्यश्च० ॥ २.४८ ॥
आश्लिष्टे ल-धौ ॥ २.४९ ॥ लादिति विश्लेषबाधनार्थं लग्रहणम् ॥ २.४९ ॥
चिह्ने न्धो वा ॥ २.५० ॥ इंधं । प्रायोग्रहणादादेरपि कगचजेति चस्य लुक् ॥ चिण्हं । सूक्ष्मश्नष्णेति ग्रहः ॥ २.५० ।।
भस्मा-ऽऽत्मनोः पो वा ॥ २.५१ ॥ [अप्पा, अप्पाणो] । आत्मन् । सि । पुंस्यन इत्यनेनाऽतिदेश आणश्च ॥ २.५१ ॥
ड्म-क्मोः ॥ २.५२ ॥ कुंपलं । [कुड्मल] । वक्रादा० ॥ रुच्ममस्याऽस्ति रुच्मी ।। २.५२ ॥
ष्प-स्पयोः फः ॥ २.५३ ॥ [पाडिप्फद्धी ] । प्रतिस्पर्द्धिन् । अतः समृद्ध्यादौ० । प्रत्यादौ डः ॥ [ बुहप्फई ] । बृहस्पति । वा बृहस्पतौ - उ: ॥ निप्पहो । निःप्रभ ॥ [परोप्परं ] । परस्पर । नमस्कारपरस्परे द्वितीयस्य - ओ ॥ २.५३ ॥
भीष्मे ष्मः ॥ २.५४ ॥ संयुक्ताधिकारादेव सिद्ध ष्मग्रहणमुत्तरार्थम् । न चोत्तरत्राऽपि लादिति बाधनात् ष्मस्यैव भविष्यतीति वाच्यं, तस्य पक्षे चरितार्थत्वात् ॥ २.५४ ॥
१. ('क्वचिदादेरपि' इत्यनेन ।) २. निष्प्रभ - क.ख.दी. । ३. ('तस्य पक्षे' इत्यस्याऽयं भावः - यदा बहुलाधिकाराद् लादित्यनेन लकारात् पूर्वमिकारागमो न भवति तदा 'श्लेष्मन्-शब्दे संयुक्तस्य फो भवतीति विधाने सति 'श्ले'-'म' - इत्यनयोः कस्य फकारो भवतीति संशयः स्यादेव । तन्निराकरणायाऽत्र ष्मग्रहणमिति ।)