________________
२२
मलधारि-श्रीनरचन्द्रसूरि - विरचितः एच्छ्य्यादौ ॥ १.५७ ॥
[पाद:- १
[ सेज्जा ] । शय्या । शषोः सः । द्यय्यर्यां जः । एत्वे कृते तैलादित्वाद् द्वित्वम् । एवं प्रायोऽन्यत्राऽपि । प्रथमं तु द्वित्वे 'आवासय'मित्यादावपि लुप्तयरवशषसामिति दीर्घात् प्राक् सकारस्य द्वित्वप्रसङ्गः ॥
[ सुंदेरं ] । सौन्दर्य । उत् सौन्दर्यादौ । ब्रह्मचर्यतूर्येति र्यस्य रः ॥
[ गेंदुअं ] । कन्दुक । मरकतमदकले गः कन्दुके त्वादौ(देः) इति कस्य गः ॥
[ एत्थ ] । अत्र । त्रपो हि [ह]त्था: ।। १.५७ ॥
वल्लयुत्कर- पर्यन्ता-ऽऽश्चर्ये वा ॥ १.५८ ॥
[पेरंतो, पज्जंतो ] । पर्यन्त । एतः पर्यन्ते र्यस्य रः । द्यय्यर्यां जः । अनादौ शेषादेशयोर्द्वित्वम् ॥
[ अच्छेरं; अच्छरियं, अच्छअरं, अच्छरिज्जं, अच्छरीयं ] । आश्चर्य । ह्रस्वः संयोगे । ह्रस्वात् थ्यश्चत्सेति छ । द्वितीयतु० । आश्चर्ये रः । पक्षे अतो रियाररिज्जरीयं इति र्यस्य चत्वार आदेशाः ।। १.५८ ॥
-
ब्रह्मचर्ये चः ॥ १.५९ ॥
[ बम्हचेरं ] । ब्रह्मचर्य । सर्वत्रेति रलुक् । पक्ष्मश्मष्मस्मह्मां म्हः । ब्रह्मचर्यतूर्य० - र्यस्य
रः ।। १.५९ ॥
तोऽन्तरि ॥ १.६० ॥
[ अंतेउरं, अंतेआरी ] । अन्तर् - पुर, अन्तर् - चारिन् । ङञणनो व्यञ्जने । अन्त्यव्यञ्जनस्य - रलुक् ॥
[ अंतो ] | अन्तः सप्तम्यन्तः संस्कृतसिद्धः । अतो डो विसर्गस्य इति डो
वीसंभनिवेसिआणं । विश्रम्भनिवेशित । सर्वत्रेति रलुक् । लुप्तयरवशषसामिति दीर्घः । आम् । टा- आमोर्णः । जस्शस्ङसीति दीर्घः ॥ १.६० ॥
१. अच्छरिअं मु. २. अच्छरीअं मु.। ३. सेर्डो: - ताटि ।