________________
सूत्रम्-४५-५६]
प्राकृतप्रबोधः
सप्तपणे वा ॥ १.४९ ॥ [छत्तिवण्णो] । सप्तपर्ण । षट्शमीशावसुधेति छः । कगटडेति पलुक् ॥ १.४९ ॥
मयट्यइर्वा ॥ १.५० ॥ [विसमइओ] । विषमय । अनेन मकाराकारस्य अइः । यस्य कति लुक् ॥ १.५० ॥
ईहरे वा ॥ १.५१ ॥
ध्वनि-विष्वचोरुः ॥ १.५२ ॥ [ झुणी] । ध्वनि । त्वथ्वद्वध्वां चछजझा: क्वचित् इति झः ॥ [सा, साणो] । श्वन् । सर्वत्रेति वलुक् । अन्त्यव्यं० - न-स्योर्मुक् । अतिदेशात् राज्ञ इत्यात्वम् । पुंस्यन आणो राजवच्चेत्यनः स्थाने आणश्च । सेझैः ॥ १.५२ ॥
वन्द्र-खण्डिते णा वा ॥ १.५३ ॥ [ वुन्द्रं ] । वन्द्रवर्जनात् [न] सर्वत्रेति रलुक् ॥ १.५३ ॥
गवये वः ॥ १.५४ ॥ गउआ । गौरादिङीबाधकः स्वस्रादेर्डा ॥ १.५४ ॥
प्रथमे प-थोर्वा ॥ १.५५ ॥ [पुढुमं] । मेथिशिथिरशिथिलप्रथमे थस्य ढ इति ढः ॥ १.५५ ॥
____ज्ञो णत्वेऽभिज्ञादौ ॥ १.५६ ॥ [अहिण्j ] । अभिज्ञ । खघथधभाम् । म्नज्ञोर्णः इति तस्य णः । अनादौ - द्वित्वम् ॥ अहिज्जो, सव्वज्जो । ज्ञो ज इति अलुक् । अनादौ० - द्वित्वम् ॥ [पण्णो] । प्राज्ञ । हूस्वः संयोगे । म्नज्ञोर्णः । द्वित्वम् ॥ १.५६ ॥ १. (राजवच्च इति अतिदेशः ।) २. चन्द्र० - क.ख. । ३. (सर्वत्र लवरामवन्द्रे इत्यत्र) ४. (गौरादिभ्यो मुख्यान्डी) ५. अभिण्णू - ता. । ६. समासे वा - द्वित्वम् - दी. ।