________________
सूत्रम्-४१-४४]
प्राकृतप्रबोधः [वीसाणो] । विष्वाण । सर्वत्रेति वलुक् ।। [वीसुं] । विष्वक् । सर्वत्रेति वलुक् । ध्वनिविष्वचोरुः । बाहुलकादन्यव्यञ्जनस्याऽपि में । [निस्सित्तो ] । निष्षिक्त । कगटडेति ष-कयोर्लुक् । अनादौ [शे]षेति द्वित्वम् ॥ [सासं] । सस्य । अधो मनयाम् ॥ [कासइ ] । कस्यचित् । बाहुलकादादेरपि चकारस्य कगचजेति लुक् । अन्त्यव्यं० - तलुक् ॥ [नीसहो ] । निस्सह । कगटडेति सलुक् ॥ १.४३ ॥
अतः समृद्ध्यादौ वा ॥ १.४४ ॥ [ सामिद्धी ] । समृद्धि । इत् कृपादौ ॥ [पायडं] । प्रकट । टो डः ॥ [पाडिवआ] । प्रतिपत् । स्त्रियामादविद्युतः - आत्वम् ।। [पाडिसिद्धी ] । प्रतिसिद्धि । सिध्यतेः । सेधतेस्तु स्थासेनेति षत्वं स्यात् ॥ [सारिच्छो] । सदृक्ष । कगचजेति दलुक् । दृशः क्विप्टक्सकः इति ऋस्थाने रि ।
छोऽक्ष्यादौ । [माणंसी, माणंसिणी] । मनस्विन्, मनस्विनी । वक्रादावन्तः इत्यनुस्वारः ॥ [ अहिआई] । अभियानि(ति) । खघथधभाम् ।। [पावासू] । प्रवासिन् । प्रवासीक्षौ इति सेरिकारस्य उ: ॥ [पाडिप्फद्धी ] । प्रतिस्पर्खिन् । सर्वत्रेति रलुक् । प्रत्यादौ डः इति तेर्डकारः । ष्यस्पयोः
फः । अनादौ० - द्वित्वम् ॥ [आफंसो] । स्पृश् । [स्पृशः] फासफंसेति फंस् । घञ् । न स्पर्श इति वाक्यम् । * अथवा
अस्पर्शः । ष्पस्पयोः फः । वक्रादावन्त इत्यनुस्वारः ।। [पारकेरं, पारक्कं] । परकीय । परराजभ्यां क्वडिक्कौ च इति अकीयस्थाने केर-क्कौ । ततो
निमित्ताभावे पुनः परशब्दान्तेऽकारः ॥ १.४४ ॥ १. (वा स्वरे मश्च इत्यनेन ।) २. नीसित्तो - मु.। (अत्र निर्दुरोर्वा लुंकि निर इति सूत्रयोः प्रवृत्तिः ।) ३. क्षः खः क्वचित्तु छझौ - छ: - दी. । ४. (अकीयप्रत्यये परे अवर्णेवर्णस्येति सूत्रेण 'पर'शब्दान्त्य-अकारस्य लोप: । अकीयप्रत्ययाभावे च तस्य पुनः सद्भाव इति तात्पर्यम् ।)