________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ पदादपेर्वा ॥ १.४१ ॥ [तं] । तद् । अन्त्यव्यं० - दलुक् । सि । क्लीबे स्वरान् म् सेः ॥ [अवि] । अपि । पो वः ॥ [किं] । किम् । सि । किमः किम् - सिना सह किमादेशः ।। केण । किमः कस्त्रतसोश्च - कादेशः । टा । टा-आमोर्णः । टाणशस्येत् ॥ [कह] । कथम् । खघथध० ॥ १.४१ ॥
इतेः, स्वरात् तश्च द्विः ॥ १.४२ ॥ [दिटुं] । दृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे । सि → म् ॥ [?] । ऋक् । सि ॥ इय । इति । इतौ तो वाक्यादौ इति इति-स्थस्य तस्य इकारस्य अकारः । करोति तलुक् ॥ विंझगुहा । [विन्ध्यगुहा] । साध्वसध्यह्यां झः ॥ १.४२ ॥
लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः ॥ १.४३ ॥ [पासइ] । पश्यति । अधो मनयाम् । शषोः सः ।। [कासवो] । कश्यप । अधो मनयाम । पो वः ।। वीसमइ । श्रमूच् विपूर्वः । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते । रलुक् ॥ [संफासं॰] । संस्पर्श । ष्यस्पयोः फः । सर्वत्रेति रलुक् । शषोः सः । सि । गुणाद्याः क्लीबे
___वेति क्लीबत्वे सेम् ॥ वीससई । अन श्वसक् प्राणने । श्वस् विपूर्व । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते ।
सर्वत्रेति र(व)लुक् ॥ [ दूसासणो] । दुश्शासन । कगटडेति शलुक् । नो णः ॥ [सीसो] । शिष्य । अधो मनयाम् ॥ [कासओ] । कर्षक । सर्वत्रेति रलक ॥
१. पक्षे वा स्वरे मश्च - खटि. । २. संफासो - मु. । संफासं - ता. । ३. स्वराणां स्वराः - इ[तोऽ]त् - ताटि. । (इदं च 'विश्वसिति' इति सिद्धावस्थापेक्षया ।)