________________
[पादः-१
मलधारि-श्रीनरचन्द्रसूरि-विरचितः महइ । काक्षु काङ्क्षायाम् । उदितः स्वरान्नोऽन्तः - ना-ऽऽगमे काङ्क्षराहाहि-लंघाहीति मह
आदेशः । तिव् । त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ । व्यञ्जनाददन्ते - अः ॥ काहिइ । डुईंग् करणे । कृ-स्यति । त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ । भविष्यति
हिरादिः - हिः । आः कृगो भूतभविष्यतोश्च - आ ॥ [बिइओ] । द्वितीय । कगटडेति दलुक् । कगचजेति त-ययोर्लुक् । पानीयादिष्वित् - इत्वम् । सि । अतः सेझैः ॥ १.५ ॥
न युवर्णस्याऽस्वे ॥ १.६ ॥ न । संस्कृतसिद्ध एव । सि । अव्ययस्य - लुक् । अव्ययानि प्रायः संस्कृतसिद्धान्येव
प्राकृतेऽपि ज्ञेयानि । अन्यथा अदन्तेषु अतः सेोः इ[दु]दन्तेष्वक्लीबे सौ दीर्घ इति
प्रसज्याश्रयणाः दीर्घश्च प्रसज्येत ॥ [वेरिवग्गे] । वैरिवर्ग । ऐत एत् । सर्वत्रेति रलुक् । निमित्ताभावे नैमित्तिकगस्याऽभावः।
अनादाविति द्वित्वम् । ङि। डेम्मि : - ङि → डे । डित्यन्त्यस्वरादेः ॥ [वि] । अपि संस्कृतसिद्धः । पदादपेर्वा - अलुक् । पो वः ॥ [अवयासो] । अवकाश । कगचजेति कलुक् । अवर्णो यश्रुतिः । शषोः सः ।
__सि → डो ॥ वंदामि । वदुङ् स्तुत्यभिवादनयोः । वद् । नोऽन्तः । ङजणनो व्यञ्जने - अनुस्वारः ।
वर्तमाना ए । तृतीयस्य मिः । व्यञ्जनाददन्ते - अत् । मौ वा - आत्वम् ॥ [अज्जवइरं] । आर्यवैर । हूस्वः संयोगे । द्यय्यर्यां जः । द्वित्वम् । वैरादौ वा - अइः । अम् ।
अमोऽस्य - अलुक् । *अथवा आर्यवज्र । शर्षतप्तवज्रे वा - रात् प्राक् इकारः ॥ [दणुइंदरुहिरलित्तो] । दनुजेन्द्ररुधिरलिप्त । नो णः । हुस्वः संयोगे । ङञणनो
व्यञ्जने । द्रे रो नवा - रलुक् । खघथधभाम् । कगटडेति पलुक् । अनादौ
१. आ कृगो - ग. । २. लुप् - क.ख. । ३. (अयमत्र भाव: - 'अक्लीबे' इत्यत्र प्रसज्यनजाश्रयणे नपुंसकलिङ्गादन्यत्र सर्वत्र दीर्घत्वं विधीयते, न पर्युदासवत् पुंस्त्रीलिङ्गयोरेव । ततोऽव्ययस्याऽलिङ्गत्वात् तत्रापि दीर्घत्वं प्रसज्येत । तन्निराकरणाय संस्कृतसिद्धान्येवाऽव्ययानि प्राकृतेऽपि यथावदेव ग्राह्याणि ।) ४. वैरिवर्ग - ख.ग. । ५. ('वैरिवर्ग' इत्यत्र गकारद्वितयं रकारनिमित्तकं, हादर्हस्वरस्येति सूत्रेण । अथ रकारस्य लोपे द्वित्वभूतो गकारोऽपि निमित्ताभावाद् निवर्तते ।) ६. वन्दामि - मु. । ७. वदि अभिवादनस्तुत्योः - दी. । ८. दणुइन्द० - मु. । (एवमग्रेऽपि यत्र यत्र प्रबोधकारा ङजणनो व्यञ्जने इति सूत्रेण मोऽनुस्वार इत्यनेन वाऽनुस्वारं निर्दिशन्ति, तत्र तत्र मुद्रितप्रतौ अनुस्वारस्थाने परसवर्णोऽन्त्यो मुद्रितोऽस्ति ।)