________________
सूत्रम्-२-५]
प्राकृतप्रबोधः [जउँणायडं] । यमुनातट । आदेर्यो जः । यमुनाचामुण्डाकामुकेति मलुक् अनुनासिकश्च ।
नो णः । कगचज० - तलुक् । अवर्णो यश्रुतिः । टो डः । स्यादिः ॥ [नईसोत्तं] । नदीस्रोतस् । कगचज० - दलुक् । सर्वत्र लवरामिति रलुक् । तैलादौ -
तस्य द्वित्वम् । अन्त्यव्यञ्जनस्य - सलुक् । स्यादिः ।। [गोरीहरं ] । गौरीगृह । औत ओत् । गृहस्य घरोऽपतौ - घरादेशः । खघथधभाम् - घस्य
हः । स्यादिः ॥ [वहूमुहं] । वधूमुख । खघथधभाम् - ध-खयोर्हः । स्यादिः ॥ १.४ ॥
पदयोः सन्धिर्वा ॥ १.५ ॥ [वासइसी ] । व्यास-ऋषि । अधो मनयाम् – यलुक् । इत् कृपादौ - इकारः । शषोः सः ।
सि । अन्त्यव्यञ्जनस्य । अक्लीबे सौ ॥ [विसमआयवो] | विषम-आतप । शषोः सः । कगचजेति तलुक् । अवर्णो यश्रुतिः ।
पो वः । सि । अतः सेझैः ॥ [दहिईसरो] । दधि-ईश्वर । खघथधभाम् । सर्वत्र लवरामिति वलुक् । शषोः सः । सि ।
अतः सेझैः ॥ [साउउअयं ] । स्वादु-उदक । सर्वत्रेति वलुक् । कगचजेत्यादिना द-द-कानां लुक् । अवर्णो
यश्रुतिः । सिरित्यादि ॥ [पाओ] । पाद । कगचजेति दलुक् । सि । अतः सेझैः ॥ [पई] । पति । कगचजेति तलुक् । सि । अन्त्यव्यञ्जनस्य - सिलुक् । अक्लीबे सौ -
दीर्घः ॥ [वत्थाओ ) । वस्त्र । सर्वत्रेति रलुक् । स्तस्य थोऽसमस्तस्तम्बे - स्त → थ । अनादौ० -
द्वित्वं प्राप्नोति । द्वितीयतुर्ययोरिति त आदिः । डसि । ङसेस्त्तोदोदुहिहिन्तोलुकः -
दो । जस्शस्ङसित्तोदोद्वामि दीर्घः । करोति दलुक् । [मुद्धाइ, मुद्धाए] । मुग्धा । कगटडेति गलुक् । द्वितीयतुर्ययोरुपरि पूर्वः । टा ।
टाडस्डेरदादिदेद् वा तु ङसेः - इत्, एत् ॥
१. नदीश्रोतस् - क.ग. । २. वच्छाओ - मु. । वस्त्र - ताटि. ।