________________
॥ श्रीशङ्खेश्वरपार्श्वनाथाय नमः ॥ ॥ अनन्तलब्धिनिधान-श्रीगौतमस्वामिने नमः ।।
॥ नमो नमः श्रीगुरुनेमिसूरये ॥
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
प्राकृतप्रबोधः
॥ प्रथमः पादः ॥
॥ अहँ ॥ प्रणम्य परमज्योति-ोतिताशेषवाङ्मयम् ।
सिद्धहेमाष्टमाध्याये, रूपसिद्धिविधीयते ।। इह च यथा संस्कृतलक्षणे धातुप्रत्ययादिसिद्धायां प्रकृतौ पश्चाद् विभक्त्यादिविधिः; तथा प्राकृतलक्षणेऽपि प्रायः प्राकृतलक्षणसिद्धां प्रकृतिमाधाय तदनन्तरं विभक्त्यादिप्रक्रिया कर्तव्या, नाऽन्यथा, रूपसिद्धिक्रमभङ्गप्रसङ्गात् ।
अथ प्राकृतम् ॥ १.१ ॥ कैअवं । [कैतव] । कगचजतदपयवां प्रायो लुगिति तलुक् । सिः । तस्याः क्लीबे स्वरान्
म् सेरिति म् । तस्य मोऽनुस्वार इत्यनुस्वारः ।।
१. परमं ज्योति० - क.ख.दी. । २. ०हैमा० - ख. । ३. ०ध्यायरूप० - क.ख.दी. । ४. अव्ययशब्दास्तु विभक्त्यन्ताः संस्कृतसिद्धा एव प्राकृतलक्षणेन विशेष्यन्ते । विभक्तिश्च संस्कृतवत् । प्राकृतेऽपि प्रकृति-प्रत्यय-वर्णलोप-वर्णागमवर्णविकार-वर्णव्यत्ययादिविधिना रूपसिद्धि विधाय दीयते - खटि. । ५. कितवस्येदं कैतवं, युवादेरण् । कितवस्य भावो वा । कगेति तलुक् । क्लीबे० - म् । मोऽनुस्वारः । परमते त्यादौ चे...यत: ऐ औ...त् अतः कप्रत्ययो (?) भवति - खटि. । कैअवं कौरवा परमते, स्वमते तु कइअवं कउरवा - ताटि. । ६. गिति तलुकि सिः - क. ।