________________
१३३
सूत्रम्-२९१-३०२]
प्राकृतप्रबोधः तिष्ठश्चिष्टः ॥ ४.२९८ ॥
अवर्णाद् वा ङसो डाहः ॥ ४.२९९ ॥ [एलिशाह] । ईदृशस्य । एत् पीयूषापीडेति ए: । दृशः क्विप्टक्० - रिः ॥ पश्चादो । पश्चात् । अन्त्यव्यं० । ङसि । डसेस्त्तोदोदुहिहितो० ।। हिंडीयदि । हिडुङ् गतौ । ते → इच् । क्य । ईअइज्जौ क्यस्य । [हिडिंबाए] । हिडिम्बा । ङस् । टाङस्डेरदादि० ॥ [घुडुक्कयशोके ] । घटोत्कचशोक । स्वराणां स्वराः - घुः । हूस्वः सं० ॥ ४.२९९ ॥
आमो डाहँ वा ॥ ४.३०० ॥ [ तुम्हाहँ, अम्हाहँ] । युष्मद्, अस्मद् । पक्ष्मश्मष्मस्म० । अन्त्यव्यं० । युष्मद्यर्थपरे तः ॥ [सरिआह] । सरित् । स्त्रियामादविद्युतः - आः ॥ ४.३०० ॥
अहं-वयमोर्हगे ॥ ४.३०१ ॥
शेषं शौरसेनीवत् ॥ ४.३०२ ॥ [शामिपशादाय] । स्वामिप्रसादाय । तादर्थ्य० इत्यस्य पक्षे डेङस्योर्यातौ । अत आः
स्यादौ० ॥ महंदे । महत् । गोणादयः - न्त । अधः क्वचित् - दः । सि । अत एत् सौ० ॥ मालेध । मृत् । णिच् । ऋवर्णस्याऽरः - अर् । पञ्चमी ध्वम् । बहुषु न्तुह० ।
णेरदेदा० - ए । अदेल्लुक्यादे० । हच उपलक्षणत्वादिहहचोर्हस्येति हस्याऽपि धः ।
एवं [धलेध]। धरेत ॥ अयं । पुंस्त्रियोर्न वाऽयमिमिआ सौ ॥ [शे] । वेदंतदेतदो ङसाम्भ्यां सेसिमौ ॥ अप्पणो । जस्शस्ङसिङसां णौ ॥ १. हिंडीअदि - मु. । २. घडुक्कयशोके - मु. । ३. (वस्तुतः 'डाहँ' इत्यस्य डित्त्वात्, डित्यन्त्यस्वरादेरित्यनेन स्वयमेव युष्मदस्मत्स्थ - 'अत्' इत्यस्य लोपे जायमाने, अन्त्यव्यञ्जनस्येति सूत्रस्याऽत्र काऽऽवश्यकतेति चिन्त्यम् ।)