________________
[पादः-४
१३२
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
स्थ-र्थयोस्स्तः ॥ ४.२९१ ॥ अस्तवदी । अर्थपति ॥
शस्तवाहे । सार्थवाहः ॥ ४.२९१ ॥
ज-द्य-यां यः ॥ ४.२९२ ॥ याणदि । ज्ञो जाणमुणौ ॥ [अय्युणे] । अर्जुन । अनादौ शेषा० ॥ गय्यदि । गर्छ । तिव् → इच् । व्यञ्जनाद० । अतो देश्चेति दिः ॥ ४.२९२ ॥
न्य-ण्य-ज्ञ-झां ञः ॥ ४.२९३ ॥ [अञ्जदिशं] । अन्या चाऽसौ दिक् च । दिक्प्रावृषोः सः । पुंवत् ॥ [ कञकावलणं] । कन्यकावरणम् ॥ [पुञवंते ] । पुण्यवत् । आल्विल्लोल्लालवंतमंतेति वंतः ॥ ४.२९३ ।।
व्रजो जः ॥ ४.२९४ ॥
छस्य श्चोऽनादौ ॥ ४.२९५ ॥ पुश्चदि । प्रच्छः पुच्छः । अतो देश्च ॥ [आवन्नवश्चले ] । आपन्नवत्सल । ह्रस्वात् थ्यश्चत्सप्सामिति छः ॥ [तिरिच्छि] । तिर्यचस्तिरिच्छिः ॥ [पेस्कदि] । प्रेक्षते । स्कः प्रेक्षाचक्षोः ।। छाले । छागे लः ॥ ४.२९५ ॥
क्षस्य कः । ४.२९६ ॥ स्कः प्रेक्षा-ऽऽचक्षोः ॥ ४.२९७ ॥
१. पुंवत्कर्मधारये - ख. । २.[गश्च गश्च ] । गम् । पं० हि । गमिष्यमासां छः । दुसुमु विध्यादि इति । अत इज्जस्विज्जहीति सुलुक् । पदेन श्च । असकृत्० ॥ पुश्चदि - ख. ।