________________
॥ चतुर्थः पादः ॥
इदितो वा ॥ ४.१ ॥ कथेर्वज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जंप-सीस-साहाः ॥ ४.२ ॥ पक्षे कहइ । कथण् । साध्यत्वादत्र णिजभावः । णिचि वा णेरदेदेति । अदेल्लुक्यादेरत आः । स्वराणां स्वरा इत्याकारस्य अत्वम् ॥ ४.२ ॥
दुःखे णिव्वरः ॥ ४.३ ॥
जुगुप्सेझुण-दुगुच्छ-दुगुंछाः ॥ ४.४ ॥ [ जुगुच्छइ ] । हुस्वात् थ्यश्च ॥ ४.४ ॥
बुभुक्षि-वीज्योीरव-वोज्जौ ॥ ४.५ ॥ वीजमिवाऽऽचरतीति कर्तुः क्विप्० ॥ ४.५ ॥
ध्या-गोझा-गौ ॥ ४.६ ॥ झाअइ । स्वरादनतो वा - अत् ॥ ४.६ ॥
ज्ञो जाण-मुणौ ॥ ४.७ ॥ णायं । म्नज्ञोर्णः ॥ जाणिऊण । एच्च क्त्वातुम्० ॥ ४.७ ॥
उदो ध्मो धुमा ॥ ४.८ ॥
१. 'प्रायो ण्यन्ताश्चरादय' इति न्यायात् साध्यत्वाद् वा णिजभावः - दी. । २. णेरदेदेति आत्व - ख.ग. । ३. पक्षे ह्रस्वात् थ्यश्च० - छ - क.ख. । ४. नायं - ख. ।