________________
१०२
[पादः-३
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
मध्यमस्येत्था-हचौ ॥ ३.१४३ ॥ जं जं ते । युष्मद् । चतुर्थ्याः षष्ठी । तइतुतेतुम्हं० ॥ ३.१४३ ॥
तृतीयस्य मो-मु-माः ॥ ३.१४४ ॥ हसामो । इच्च मोमु० ॥ तुवरामो । त्वरस्तुवर० ॥ ३.१४४ ॥
अत एवैच-से ॥ ३.१४५ ॥ वसुआइ । वांक् गतौ उत्पूर्वः । उद्वाकेरोरुम्मावसुआ ॥ ३.१४५ ॥
सिनाऽस्तेः सिः ॥ ३.१४६ ॥ अस्थि तुमं । द्वितीयस्य सिसे इति से । अस्थिस्त्यादिना ॥ ३.१४६ ॥
मि-मो-मैम्हि-म्हो-म्हा वा ॥ ३.१४७ ॥ एस म्हि । एतद् । वैसेणमिणमो सिना ॥ गय म्हो । गताः स्मः । हूस्वः सं० ॥ ३.१४७ ।।
अत्थिस्त्यादिना ॥ ३.१४८ ॥
णेरदेदावावे ॥ ३.१४९ ॥ दरिसइ । वृषादीनामरिः ॥ कारेइ । अदेल्लुक्यादेरत आः ॥ भावेइ । उवर्णस्याऽऽवः ॥ ३.१४९ ॥
गुर्वादेरविर्वा ॥ ३.१५० ॥ सोसिअं। युवर्णस्य गुणः ॥ ३.१५० ॥
भ्रमेराडो वा ॥ ३.१५१ ॥ [भमाडेइ] । भ्रम् । णिग् । वर्तमानापञ्चमीशतृषु वा - ए ॥ ३.१५१ ॥
१. चतुर्थ्यां षष्ठी - ग. । २. तुवरामो । जित्वरिष् सम्भ्रमे । वर्त० महे । त्वरस्तु० - ख. । ३. उद्वाते० - मु. ।