________________
सूत्रम्-१३२-१४२] प्राकृतप्रबोधः
१०१ सप्तम्या द्वितीया च ॥ ३.१३७ ॥
__ क्यडोर्यलुक् ॥ ३.१३८ ॥ [गरुआअइ] । गुरुक । गुरौ के वा - अत्वम् । व्यर्थे भृशादित्वात् क्यङ् । स्वरादनतो
वेति बाहुलकात् अकारान्तादपि ।। [ दमदमाइ ] । दमत् । अदमत् दमत् भवति । अव्यक्तानुकरणा० - डाच् द्विश्च । डाच्यादौ - तलुक् ।। ३.१३८ ॥
त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ ॥ ३.१३९ ॥ ___ द्वितीयस्य सि-से ॥ ३.१४० ॥
तृतीयस्य मिः ॥ ३.१४१ ॥ बहुजाणयं । बहु जानाति, णकः । ज्ञो जाणमुणौ ॥ रूसिउं । रुषादीनां द्वित्वम् । एच्च क्त्वा० ॥ सक्कं । शकादीनां द्वित्वम् ॥ न मरं । ऋवर्णस्याऽरः ॥ ३.१४१ ॥
बहुष्वाद्यस्य न्ति-न्ते-इरे ॥ ३.१४२ ॥ रक्खसाणं । क्वचिद् द्वितीयादेरिति पञ्चम्या: षष्ठी ॥ उप्पज्जंते । पदिच । अन्ते →न्ते । स्विदां ज्जः । व्यञ्जना० ॥ [कव्वरयणाइं] । काव्यरत्न । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनात् इति अः ॥ पहुप्पिरे । प्रभौ हुप्पो वा । लुगित्यलुक् । बहुवचनम् ॥ विच्छुहिरे । क्षः खः क्वचित्तु० ॥ सूसइरे । शुषंच् । रुषादीनां दीर्घः ॥ चिक्खल्लो । देश्यः । संस्कृतस्य चीत्कुर्वन् स्खलति । पृषोदरादित्वात् साधुः ॥ ३.१४२ ॥
१. के च - ग. । २. (इदं च दीर्घश्च्चियङ्यक्क्येषु चेति सूत्रप्रवृत्तेः प्रागेव यलोपमङ्गीकृत्य विधानम् । लोपात् पूर्वं दीर्घश्च्विति सूत्रस्य प्रवर्तने 'गरुआ' इति आकारान्त एव धातुनिष्पद्यते । ततो न तत्र 'बाहुलका'दित्युल्लेखस्याऽऽवश्यकत्वम् । ता. प्रतौ टिप्पण्यामपि केवलं स्वरादनतो वेति सूत्रमेव दर्शितम् । न पुनः बाहुलकादित्युल्लिखितम् ।) ३. अदमत् - ग.। ४. ज्ञो जः - लुक् - ताटि. | ५.०हुप्पो वा । द्विवचनस्य बहु० - क.ख. । ६. चिक्खिल्लो । राजादित्वात् साधुः - ग. ।