SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ षाडशोऽध्यायः । शूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम् । जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम् ॥ ५५ ॥ लेखकमतिसुकुमारं प्रत्ययितं संमतं गुरुगृहस्थः । सुखभागिनमत्याढ्यं कुरुते चन्द्रेक्षितः सौम्यः ॥ ५६ ॥ श्रेणीभृतिनगराणां चोराणां विपिनवासिनां चापि । कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः ॥ ५७ ॥ स्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्थविज्ञानम् । नृपमत्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा ॥ ५८ ॥ कन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते । गुरुभे भृगुसुतदृष्टः सुकुमारं शौर्यसंयुतं शशिजः ॥ ५९ ॥ दुर्गारण्याभिरतं बह्वशनं दुष्टशीलमतिमलिनम् । कुरुते रविसुतष्टो बुधो नरं सर्वकार्यविभ्रष्टम् ॥ ६० ॥ ॥ इति गुरुभे दृष्टिः ॥ मलमतिसारयुक्तं बहुभक्षं निष्ठुरं प्रियालापम् | जनयति रविणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥ ६१ ॥ जलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा । भीरुस्वरूपमचरं शनि चन्द्रेक्षितः कुरुते ॥ ६२ ॥ वाक्चपलमतिसुसौम्यं व्रीडालसमन्थरं सुखाधारम् । कुरुते भूसुतो रवितनयगृहे बुधः पुरुषम् ॥ ६३ ॥ बहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम् । कुरुते गुरुणा दृष्टः सौरगृहे बोधनः ख्यातम् ॥ ६४ ॥ नीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च । अतिसुतजननं कुरुते भार्गवदृष्टो बुधः शनिभे ॥ ६५ ॥ पापकरं सुदरिद्रं कर्मकरं चातिदुःखितं दीनम् । कुरुते शनिना दृष्टः सौरगृहे बोधनः पुरुषम् ॥ ६६ ॥ ॥ इति शनिभे दृष्टिः ॥ इति कल्याणवर्मविरचितायां सारावल्यां बुधचारो नाम षड्विंशोऽध्यायः १ प्रत्ययिकं . २ सुखाधीनम्. Aho! Shrutgyanam ८३
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy