________________
सारावली। सततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम् । सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते ॥ ४२ ॥
॥इति खगृहे दृष्टिः॥ रजकं मालाकारं ग्रहवास्तुशं तथा च मणिकारम् । जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः॥४३॥ युवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम् । कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः ॥४४॥ स्वल्पश्रुतमतिमुखरं प्रियानृतं कूटकारिणं चोरम् । वक्रेक्षितः शशिगृहे कुरुते सौम्यः प्रियालापम् ॥ ४५ ॥ मेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम् । गुरुणा दृष्टः शशिभे विद्यानां पारगं बुधः कुरुते ॥ ४६॥ कन्दर्पसदृशरूपं प्रियंवदं गीतवादनविधिज्ञम् । सुभगं शशिभे ललितं कुरुते शुक्रेक्षितः सौम्यः ॥ ४७॥ दम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः । द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभे ॥४८॥
॥ इति कर्कटके दृष्टिः ॥ सेव्यं दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते । हिंस्रं क्षुद्रं सिंहे चञ्चलभाग्यं विगतलज्जम् ॥४९॥ रूपान्वितमतिचतुरं काव्यकलागेयनृत्तरतिमिनभे । धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः ॥ ५० ॥
ज्ञो नीचं रविभवने दुःखात विक्षताङ्गसमरूपम् । ....... अचतुरलीलाकान्तं नपुंसकं भौमसन्द्रष्टः ॥५१॥
सुकुमारमतिप्राज्ञं रविभे वागीश्वरं त्वतिख्यातम् । परिचारवाहनयुतं कुरुते गुरुवीक्षितः सौम्यः ॥ ५२ ॥ अतिशयरूपं ललितं प्रियंवदं वाहनाढ्यमतिधीरम् । जनयति सितेन दृष्टो मत्रिणमथ पार्थिवं सिंहे ॥ ५३॥ व्यायतगात्रं रूक्षं सुविरूपं स्वेदनोग्रगन्धं च । . अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः ॥५४॥
॥ इति सिंहे दृष्टिः ॥ १ मधुरं. २ सेj. ३ भावं. ४ कल्पिताङ्ग. ५ च विख्यातम्. ६ शुचिरूपं.
Aho ! Shrutgyanam