SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पडिशोऽध्यायः । -८१ रुधिरगृहे शनिष्ट हिमकिरणसुतोऽतिदुःखितं जनयेत् । उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम् ॥ ३० ॥ ॥ इति कुजभे दृष्टिः ॥ दारिद्र्यदुःखततं व्याधितदेहं परोपचाररतम् । दिनकरदृष्टः सौम्यः कुरुते जनधिक्कृतं सित ॥ ३१ ॥ प्रत्ययितं धनवन्तं दृढभक्तिमारोगिणं दृढकुटुम्बम् । ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे ॥ ३२ ॥ व्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम् । जनयति विंदसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः ॥ ३३ ॥ प्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम् । त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः ॥ ३४ ॥ सुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे । हृदयहरं कन्यानां कुरुते शुक्रेक्षितः सौम्यः ॥ ३५ ॥ शुक्रगृहेऽर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम् । व्याधितमनर्थबहुलं सौम्यः कुरुते नरं मलिनम् ॥ ३६ ॥ ॥ इति शुक्रगृहे बुधस्य दृष्टिः ॥ अवितथकथनं मधुरं नृपवल्लभमीश्वरं ललिनचेष्टम् । दयितं करोति लोके रविणा दृष्टो बुधः खगृहे ॥ ३७ ॥ सुमधुरमतिवाचाटं कलहरतं शास्त्रवत्सलं सुदृढम् । जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु ॥ ३८ ॥ विक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभृत्यं च । वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः ॥ ३९ ॥ पार्थिवमत्रिणमग्र्यं प्रतिरूपमुदारविभवपरिवारम् । यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः ॥ ४० ॥ प्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः । स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम् ॥ ४१ ॥ १ बुधोऽसृग्दृष्टः २ शस्त्रवत्सलं. ३ अविहृतगात्रं. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy