________________
: सारावली । विख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमधिगतः । मत्री पुरोहितो वा कुलप्रधानो महापुरुषः ॥ १७ ॥ यज्ञाध्यापननिरतो मेधावी वाक्पटुव्रती दाता। . लिपिलेख्यदानकुशलः कार्मुकसंस्थे बुधे जातः ॥ १८॥ नीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः । नानादुःखपरीतः स्वप्नविहारादिशीलश्च ॥ १९ ॥ पिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोत्यसंस्थितात्मा च । मलिनो भयसञ्चलितो दिष्टो मकरे बुधे पुरुषः ॥२०॥ वाग्बुद्धिकर्मनिरतः प्रकीर्णधर्मावर्जविहितार्थः । परपरिभूतो न शुचिः शीलविहीनस्ताऽज्ञश्च ॥ २१ ॥ अतिदुष्टदारशत्रु गैस्त्यक्तो घटे विवाग्भवति । अतिदुर्भगोऽतिभीरुः क्लीबो मलिनो विधेयश्च ॥ २२॥ आचारशौचनिरतो देशान्तरगोऽप्रजो दरिद्रश्च । शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः ॥ २३॥ सूच्यादिकर्मकुशलो विज्ञानश्रुतिकलावियुक्तश्च । परधनसंचयदक्षो मीने शशिजेऽधनः प्रकीर्णश्च ॥ २४ ॥ सत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम् । कुरुते बुधोऽर्कदृष्टो बन्धुजने सुक्षमं कुजभे ॥ २५ ॥ रजनीकरण दृष्टो युवतिजनमनोहरं क्षितिजराशौ । अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च ॥ २६ ॥ अनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे । जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्लभं शूरम् ॥२७॥ सुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च । जीवेक्षितोऽतिधनि जनयत्याज्ञपिकं पापम् ॥ २८ ॥ नृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम् । प्रत्ययिकं सितदृष्टः कुजमे स्त्रीसंयुतं शशिजः ॥ २९ ॥
१ शिल्प. २ विभवः. ३ शब्द, शास्त्र. ४ निष्ठो. ५ रहितः ६ लज्ज. ७ विहितात्मा. ८ कलाज्ञश्च. ९ विज्ञातः. १० रतं. ११ प्रत्ययिनं. १२ युजं,
Aho ! Shrutgyanam