SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पड्विंशोऽध्यायः । दक्षः प्रगल्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः । व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः ॥३॥ स्फीतधनस्त्रीसहितः प्रियवल्गुकथो गृहीतवाक्यश्च । गान्धर्वहास्यशीलो रतिलोलो वै बुधे वृषभे ॥४॥ शुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी। प्रोज्झितसुखकोल्परतिस्त्रिीपुत्रो विवादरतः ॥ ५॥ श्रुतिकल्पकलाभिज्ञः कविः स्वतत्रः प्रियः प्रदानरतः । कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति ॥६॥ प्राज्ञो विदेशनिरतः स्त्रीरतिगेयादिसक्तचित्तश्च । चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः ॥७॥ स्त्रीवैरान्नष्टधनः कुत्सितशीलो बहुक्रियाभिरतः । सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च ॥ ८॥ ज्ञानकलापरिहीनो लोकख्यातो नसत्यवाक्यश्च । अल्पस्मृतिश्च धनवान् सत्वविहीनः सहजहन्ता ॥९॥ स्त्रीदुर्भगः स्वतत्रो जघन्यकर्मा बुधे भवंति पुरुषः । प्रेष्योऽप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च ॥ १०॥ धर्मप्रियोऽतिवाग्मी चतुरः स्याल्लेख्यकाव्यज्ञः। .. विज्ञानशिल्पनिरतो मधुरः स्त्रीवल्पवीर्यश्च ॥ ११ ॥ ज्येष्ठः पूज्यः सुहृदां नानाविनयोपचारवाँदरतः । ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान् ॥ १२ ॥ शिल्पविवादाभिरतो वाक्चतुरोऽर्थार्थमीप्सितव्ययकृत् । नानादिपण्यरतिर्विप्रातिथिदेवगुरुभक्तः ॥ १३ ॥ कृतकोपचारकुशलः सुसम्मतो देवभक्तश्च । सप्तमभवने शशिजे शठश्वलक्षिप्रकोपपरितोषः ॥ १४ ॥ श्रमशोकानर्थपरः सद्वेष्योऽत्यन्तधर्मलेजश्च । मूों न साधुशीलो लुब्धो दुष्टाङ्गनारमणः ॥ १५ ॥ पारुष्यदण्डनिरतश्छलकृद्विद्विष्टकर्मसु निरुद्धः । ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे ॥१६॥ १ गभीर. २ युवतिरूपः. ३ मानी. ४ दार. ५ वर्जश्च. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy