________________
सासवली
अकलत्रं सुखरहितं रिपुभिरधृष्यं च वित्तवन्तं च । गुरुभवने गुरुंदृष्टो व्यायामपरं कुजः कुरुते ॥ ५८ ॥ कन्यानामतिदयितं चित्रालङ्कारभागिनमुदारम् । विषयपरमति च सुभगं गुरुभे काव्येक्षितः कुजः कुरुते ५९ गुरुभेऽसृक् शनिदृष्टः कुशरीरमुदारमाहवे पापम् । अटनं सुखलवरहितं परधर्मरतं कुजः कुरुते ॥ ६० ॥
॥ इति गुरुमे दृष्टिः ॥ अतिकृष्णतनुं शूरं योषिदपत्यार्थविस्तरैर्युक्तम् । सूर्येक्षितोऽतितीक्ष्णं सौरगृहे भूमिजः कुरुते ॥६१ ॥ चपलमहितं जनन्या यमभेऽलंकारभागिनमुदारम् । अस्थिरसौहृदमाढ्यं जनयति चन्द्रेक्षितो वक्रः ॥ ६२ ॥ अतिमधुरगमनमधनं रवितनयगृहे न निर्वृतमसत्वम् । कापटिकमधर्मपरं जनयति बुधवीक्षितो भौमः ॥ ६३ ॥
विरूपं मन्दगृहे नृपतिगुणसमन्वितं स्थिरारम्भम् । दीर्घायुषं क्षमाजो गुरुसंदृष्टः करोति बन्ध्वाप्तम् ॥ ६४॥ विविधोपभोगमाढ्यं शनिभे स्त्रीपोषणानुरतमेव । शुक्रेण दृश्यमानो जनयति कलहप्रियं वक्रः ॥ ६५ ॥ नृपतिमतिवित्तवन्तं युवतिद्वेष्यं बहुप्रजं प्राज्ञम् । सुखरहितं रणशौण्डं करोति शनिभे शनीक्षितो भौमः ॥६६॥
॥ इति शनिभे दृष्टिः ॥ इति कल्याणवर्मविरचितायां सारावल्यां अङ्गारकचारो नाम पञ्चविंशोऽध्यायः ॥
पड़िशोऽध्यायः । प्रियविग्रहस्तु वेत्ताचार्यों विटधूर्तचेष्टकृशगात्रः । सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित् ॥१॥ कूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः । 'बह्वणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः ॥२॥
१ सुखधनरहितं. २ अतिमधुरमटन. ३ अतिरूपम्.
Aho ! Shrutgyanam