SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशोऽध्यायः। विख्यातो नृपमत्री विद्वांस्त्यागान्वितो भवेद्धन्यः । गुरदृष्टे शशिभवने भोगैश्च विवर्जितो व ॥ ४६॥ स्त्रीसङ्गादुद्विग्नः परिभूतस्त्रीकृतैस्तथा दोषैः । । कर्कटके क्षितिपुत्रे सितदृष्टे स्याद्विपन्नधनः ॥४७ ।। जलसंयानो विधनः क्षितिपालसैमानललितचेष्टश्च । शशिगृहसंस्थे भौमे यमेक्षिते स्यात् सदा कान्तः ॥४८॥ ॥ इति चन्द्रगृहे दृष्टिः ॥ प्रणतानां हितकारी मित्रैः स्वजनैश्च संयुतश्चण्डः । गोकुलवनाद्रिचारी सिंहे भौमे तरणिदृष्टे ॥ ४९॥ मातुन शुभो मतिमान् कठिनशरीरो विपुलकीर्तिः । केसरिभवने भौमे शशिना दृष्टेऽङ्गनाप्रार्थ्यः ॥ ५० ॥ बहुशिल्पज्ञो लुब्धः काव्यकलालम्पटो विषमशीलः । पञ्चमभवने भौमे बुधेन दृष्टेऽतिनिपुणश्च ॥५१॥ भूपतिसमीपवर्ती विद्याचार्यों विशुद्धबुद्धिश्च । अवनिसुते सिंहस्थे गुरुणा दृष्टे चमूनाथः ॥ ५२ ॥ विविधस्त्रीभोगयुतः स्त्रीसुभगो नित्ययौवनो हृष्टः । लेयगृहे रक्ताङ्गे सितेन दृष्टे भवेजातः ॥ ५३॥ वृद्धाकारो निःस्वः परवेश्मभ्रमणशीलवान् दुःखी । दिनकरराशौ रुधिरे दिनकरतनयेन संदृष्टे ॥ ५४॥ ॥ इति सिंहे दृष्टिः ॥ लोकनमस्यं सुभगं वनगिरिदुर्गेषु लॅब्धगृहवासम् । सुरगुरुभवने भौमः करोति रविणेक्षितः क्रूरम् ॥ ५५॥ विकलं कलहप्रायं प्राज्ञं रुधिरः करोति शशिदृष्टः । विद्वांसं गुरुभवने नृपतिविरुद्धं सदा पुरुषम् ॥ ५६ ॥ मेधाविनं सुनिपुणं शिल्पाचार्य बुधेन संदृष्टः । गुरुभवने क्षितितनयः करोति विद्वांसमत्यन्तम् ॥ ५७ ॥ १ स्त्रीसङ्गानष्टधनः. २ जलसंयानाप्तधनः. ३ क्षितिपालसमः पुमान् ल• लितचेष्टः. ४ अङ्गनाप्तार्थः. ५ सद्गृहावासम्. ६ शूरम्. ७ विकलांसमतिनिपुणम्. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy