SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सारावली। वादितगीतविधिज्ञः सौभाग्ययुतः स्वबन्धुदयितश्च । शुक्रभवने क्षितिसुते दृष्टे गुरुणा भवेत् स्फीतः ॥ ३४ ।। नृपमन्त्री नृपदयितः सेनानाथः प्रसिद्धनामा च । शुक्रगृहे भवति कुजे शुक्रेण निरीक्षिते सुखितः ॥ ३५ ॥ सुखभाक् ख्यातो धनवान् मित्रखजनैयुतः कुजे विद्वान् । श्रेणिपुरग्रामाणामधिपः सितभे च शनिदृष्टे ॥ ३६ ॥ ॥इति भृगुभे दृष्टिः ॥ विद्याधनशौर्ययुतं गिरिवनदुर्गप्रियं महासत्वम् । बुधभवने रक्ताङ्गो जनयति दृष्टः सदा रविणा ॥ ३७॥ कन्यांपुररक्षकरं युवतिपतिं सद्विनीतमतिसुभगम् । ज्ञगृहे नृपगृहपालं जनयति चन्द्रेक्षितो भौमः ॥ ३८॥ लिपिगणितकाव्यकुशलं बहुभाषिणमनृतमधुरवाक्यं च । दूतं बहुदुःखसहं जनयति वक्रो बुधेक्षितो ज्ञः ॥ ३९ ॥ राजपुरुषं प्रकाशं दौत्येन विदेशगं नरं कुरुते । सर्वक्रियासु कुशलं बुधराशौ नायकं च गुरुदृष्टः ॥ ४० ॥ शुक्रण दृश्यमानः स्त्रीकृत्यकरं समृद्धसुभगं च । बुधभवने रक्ताङ्गः कुरुते वस्त्रान्नभोक्तारम् ॥४१॥ आकरगिरिदुर्गरतं कर्षकमतिदुःखभागिनं कुरुते । अतिशूरमति च मलिनं यमेक्षितो बुधगृहे विभवहीनम्॥४२॥ ____॥ इति बुधभवने दृष्टिः ॥ पित्तरुगर्दितदेहस्तेजस्वी दण्डनायको धीरः । चन्द्रगृहस्थे भौमे दिनकरदृष्टे भवेत्पुरुषः ॥४३॥ बहुभिर्व्याधिभिरातों नीचाचारो विरूपदेहश्च । शशिराशौ भूतनये शशिना दृष्टे सशोकश्च ॥४४॥ मलिनः पापाचारः क्षुद्रकुटुम्बो बहिष्कृतः स्वजनैः । कर्कटके बुधदृष्टे क्षितितनये भवति निर्लजः ॥ ४५ ॥ १ सुखभाग्ययुत्तो. २ सुखिनं धनिनं कान्तं कन्यापुररक्षकं युवतिसत्वयुतम्. ३ दैन्येन विदेशगं. ४ अतिशूरमतिं मलिनं.......... .. निम विटेका ति Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy