________________
पञ्चविंशोऽध्यायः ।
प्रश्रयशौचविहीनो वृद्धाकारः सुदुर्गतिर्मरणे । मात्सर्यासूयानृतवाग्दोषैरपहृतार्थश्च ॥ २१ ॥ रोमशगात्रो विकृतो द्यूताद्याहृतधनः कुवेषधरः । दुःखसमाहृतवृत्तिः पानरुचिदुर्भगः कुजे कुम्भे ॥ २२ ॥ रोगार्तो मन्दसुतः प्रवासशीलः स्वबन्धुपरिभूतः । मायावञ्चनदोषैर्हत सर्वखो विषादी च ॥ २३ ॥ जिह्मोऽतितीक्ष्णशोको गुरुद्विजावज्ञकः सदा हीनः । ईप्सितवेत्ता ज्ञाता स्तुतिप्रियोऽन्त्ये कुजे ख्यातः ॥ २४ ॥ धनदारपुत्रवन्तं नृपसचिवं दण्डनायकं ख्यातम् । नृपतिमुदारं कुरुते दिनेश्वरनिरीक्षितः कुजः स्वर्क्षे ॥ २५ ॥ मातृरहितं क्षताङ्गं स्वजनद्वेष्यं च मित्ररहितं च । स्वगृहेऽसृक् शशिदृष्टः सेर्घ्यं कन्याप्रियं कुरुते ॥ २६ ॥ परधनहरणे निपुणं चानृतकं कामदेवभक्तं च । कुरुते व ज्ञदृष्टो द्वेष्यं वेश्यापतिं भौमः ॥ २७ ॥ प्राज्ञं मधुरं सुभगं मातृपितृवल्लभं धनसमृद्धम् । अनुपममीश्वरमाढ्यं त्रिदशगुरुनिरीक्षितोऽवनेः पुत्रः ॥ २८॥ स्वगृहेऽसृक् सितदृष्टः स्त्रीहेतोर्बन्धभागिनं कुरुते । असकृत् सकृच विभवं स्त्रीहेतोरार्जितं चापि ॥ २९ ॥ चोरविघाते शूरं निर्वार्य स्वजनपरिहीनम् । अन्यस्त्रीभर्तारं जनयति सौरेक्षितः स्वभे भौमः ॥ ३० ॥ ॥ स्वर्क्षगत भौमस्य दर्शनफलम् ॥
७५
वनपर्वतेषु रमते रामाद्विष्टो भवेद्बहुविपक्षः । सितभे रविणा दृष्टे प्रचण्डवेषेः कुजे धीरः ॥ ३१ ॥ मातुरपथ्यो विषमो बहुयुवतीनां पतिः प्रियस्तासाम् । शुक्रगृहे शशिष्टे रणभीरुर्जायते भौमे ॥ ३२ ॥ कलहप्रियो दुवचा मृदुकायो मन्दपुत्रधनः । सितभे भवति च भौमे बुधदृष्टे शास्त्रवित्पुरुषः ॥ ३३ ॥
१ स्त्री हेतोरार्जवं याति २ कोपः ३ मातुरपक्षी. ४ वेषत्रधूनां ५ बहु.
Aho! Shrutgyanam