________________
सारावली।
सलिलाशयतो धनवान् पुनः पुनर्वृद्धिवेदनार्तश्च । कर्कटके क्षितितनये भवति मृदुः सर्वतो दीनः ॥ ८॥ असहः प्रचण्डशूरः परस्वसन्तानसङ्ग्रहणशीलः । अटवीनिवासगोकुलमांसरुचिः स्यान्मृतप्रथमदारः ॥ ९॥ व्यालमृगोरगहन्ता न पुत्रवान् धर्मफलहीनः । भौमे हरौ सुसत्वः क्रियोद्यतः स्याद्वपुष्मांश्च ॥ १० ॥ पूज्यः सतामतिधनो रतिगीतधनो मृदुप्रियाभाषी । विविधव्ययोऽल्पशौर्यो विद्वान् भवति प्रणीतपार्श्वश्व ॥११॥ अहितेभ्योऽर्जनभीरुर्वेदस्मृतिधर्मवान् सुबहुशिल्पः । कन्यायां भूतनये स्नानविलेपनरतः कान्तः ॥ १२ ॥ अध्वनिरतः सुपुण्यग्रसक्तवाक्यो विकत्थनः सुभगः । हीनाङ्गः स्वल्पजनः सङ्ग्रामेप्सुः परोपभोगी च ॥ १३ ॥ योषिद्गुरुमित्राणां मनोरमो नष्टपूर्वदारश्च । शौण्डिकवेश्यानिकटे सम्प्राप्तधनक्षयस्तुलिनि भौमे ॥१४॥ व्यापारश्रुतिसत्यश्चोरसमूहाधिपः क्रियानिपुणः । युद्धोत्सुकोऽतिपापो बह्वपराधी च वैरशठः ॥ १५ ॥ द्रोहवधाहितबुद्धिः प्रसूचको भूमिपुत्रयुवतीशः । वृश्चिकगे भूपुत्रे विषाग्निशस्त्रव्रणैस्तप्तः ॥ १६ ॥ बहुभिः क्षतैः कृशाङ्गो निष्ठुरवाक्यः शठः पराधीनः । रथगजपदातियोधी रथेन शरधारकोऽथ परसैन्ये ॥ १७॥ विपुलश्रमैश्च सुखितः परस्परं क्रोधनष्टसुखवित्तः । कार्मुकसंस्थे वके गुरुष्वसेक्तः पुमान् भवति ॥ १८ ॥ धन्यो वित्ताहर्ता सुखभोगसमन्वितो भवति सुस्थः । श्रेष्ठमतिः प्रख्यातः सेनानाथो नरेन्द्रो वा ॥ १९ ॥ सद्यःप्रतिरणविजयी स्वबन्धुविषयस्थितः स्वतत्रश्च । आरक्षकः सुशीलः कुजे स्वतुङ्गे बहूपचाररतः ॥ २० ॥
१ वह्नि. २ अधिकभीरुः. ३ कुपण्य. ४ पुत्राणां. ५ सत्यः, ६ सयुवती रणविजयी.
Aho ! Shrutgyanam