________________
: सारावली ।
सप्तविंशोऽध्यायः। वादिगुणैः सम्पन्नः प्रयत्नरत्नाभरणंसंसर्गः । सत्वात्मजार्थबलयुक् प्रगल्भविख्यातकर्मा च ॥१॥ ओजस्वी बहुशत्रुर्बहुव्ययार्थः क्षताङ्कितशरीरः । चण्डोग्रदण्डनाथो जीवे क्रियगे भवेत्पुरुषः ॥२॥ पीनो विशालदेहः सुरद्विजगवां च भक्तिमान् कान्तः । सुभगः स्वदारनिरतः सुवेषकृषिगोधनाढ्यश्च ॥३॥ सद्वस्तुभूषणयुतो विशिष्टवाङ्मतिगुणो नयज्ञश्च । वृषभे गुरौ विनीतो भिषक् प्रयोगाप्तकौशलकः ॥ ४ ॥ आहितधनः सुमेधा विज्ञानविशारदः सुनयनश्च । वाग्मी दाक्षिण्ययुतो निपुणः स्याद्धर्मशीलश्च ॥५॥ मान्यो गुरुबन्धूनां मण्डनमाङ्गल्यलब्धवरशब्दः । मिथुनस्थे देवगुरौ क्रियारतिः सत्कविश्चैव ॥ ६ ॥ विद्वान् सुरूपदेहः प्राज्ञः प्रियधर्मसत्स्वभावश्च । सुमहद्बलो यशस्वी प्रभूतधान्याकरधनेशः ॥७॥ सत्यसमाधिसुयुक्तः स्थिरात्मजो लोकसत्कृतः ख्यातः । नृपतिर्जीवे शशिभे विशिष्टकर्मा सुहृज्जनानुरतः ॥ ८॥ दृढवैरसत्वधीरः सुबहुस्नेहः सुहृजने विद्वान् । आढ्यः शिष्टाभिजनो नृपो नृपतिपौरुषः सभालक्ष्यः ॥९॥ त्रिदशगुरौ सिंहस्थे समस्तरोषोद्धृतारिपक्षश्च । सुदृढव्यस्तशरीरो गिरिदुर्गवनालये जातः ॥ १० ॥ मेधावी धर्मपरः क्रियापटुर्धर्मवान्युवतिराशौ । प्रियगन्धपुष्पवस्त्रः कृत्येषु विनिश्चितार्थश्च ॥ ११॥ शास्त्रार्थशिल्पकार्यैर्धनवान् दाता विशुद्धशीलश्च । स्याद्देवगुरौ निपुणश्चित्राक्षरविद्धनसमृद्धः ॥ १२ ॥ मेधावी बहुपुत्रो विदेशचर्यागतः प्रभूतधनः ।
भाषाप्रियो विनीतो नटनर्तकसंगृहीतधनः ॥ १३॥ १ सभासङ्गः. २ समेतः, ३ भूषाप्रियो.
Aho! Shrutgyanam