________________
सप्तविंशोऽध्यायः। कान्तः श्रुताभिनिरतो महत्तरः सार्थवाहवणिजां हि । वणिजीन्द्रमत्रिणि गते सुरातिथीज्यारतः प्राज्ञः ॥ १४ ॥ बहुशास्त्राणां कुशलो नृपतिर्बहुभाष्यकारको निपुणः । देवालयपुरकर्ता सद्बहुदारोऽल्पपुत्रश्च ॥ १५ ॥ व्याध्यातः श्रमबहुलः प्रसक्तदोषो गुरौ भवत्यलिनि । दम्भेन धर्मनिरतो जुगुप्सिताचारनिरतश्च ॥ १६ ॥ आचार्यों व्रतदीक्षायज्ञादीनां स्थिरार्थश्च ।। दाता सुहृत्स्वपक्षः प्रियोपकारश्रुताभिरतः ॥ १७॥ माण्डलिको मन्त्री वा धनुर्धरस्थे भवेत्सदा जीवे । नानादेशनिवासी विविक्ततीर्थायतनबुद्धिः ॥१८॥ लघुवीर्यों मकरस्थे बहुश्रमक्लेशधारको जीवे । नानाचारो मूर्यो दुरन्तनिःस्वः परप्रेष्यः ॥ १९ ॥ माङ्गल्यदयाशौचस्वबन्धुवात्सल्यधर्मपरिहीनः । दुर्बलदेहो भीरुः प्रवासशीलो विषादी च ॥ २० ॥ पिशुनो न साधुशीलः कुशिल्पतोयाश्रमेषु कर्मरतः । मुख्यो गणस्य सुतरां नीचाभिरतो नृशंसश्च ॥ २१ ॥ लुब्धो व्याधिग्रस्तः स्ववाक्यदोषेण नाशितार्थश्च । प्रज्ञादिगुणैीनो घटे गुरौ स्याद्गुरुस्त्रीगः ॥ २२ ॥ वेदार्थशास्त्रवेत्ता सुहृदां पूज्यः सतां च नृपनेता । श्लाघ्यः सधनोऽधृष्यो बहीनदर्पस्थिरारम्भः ॥२३॥ राज्ञः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च । ख्यातः प्रशान्तचेष्टो स्थिरसत्वयुतश्च मीनगे जीवे ॥ २४ ॥ धर्मिष्ठमनृतभीरुं विख्यातसुतं महाभाग्यम् । भौमगृहे रविदृष्टो ह्यतिरोमचितं गुरुः कुरुते ॥ २५ ॥ इतिहासकाव्यकुशलं बहुरत्नं स्त्रीषु भाजनं कुरुते । कुजगेहे शशिदृष्टस्त्रिदशगुरुः पार्थिवं प्राज्ञम् ॥ २६ ॥
१ हर्म्य. २ रोषो. ३ समः स्थिरार्थश्च. ४ हार. ५ नीचा. ६ वास. ७ स्त्रीकः. ८ विशत्रुगर्वस्थिरारंभः. ९ मीनयुगे भवति ना.
८ सारा.
Aho ! Shrutgyanam