________________
सारावली । नृपपुरुषशूरमुग्रं नयविनयसमन्वितं च विधनं च । अविधेयभृत्यदारं जनयति वक्रेक्षितो जीवः ॥२७॥ अनृतं वञ्चनपापं परविवरान्वेषणेषु निपुणं च । सेवाविनयकृतज्ञं कापटिकं सौम्यसंदृष्टः ॥ २८ ॥ गृहशयनवसनगन्धैर्माल्यालङ्कारयुवतिभिर्विभवैः । समुचितमतीव भीरुं कुरुते शुक्रेक्षितो जीवः ॥ २९ ॥ मलिनं लुब्धं तीक्ष्णं साहसिकं संमतं च सिद्धं च । अस्थिरमित्रापत्यं त्रिदशगुरुः सौरसंदृष्टः ॥ ३०॥
॥ इति जीवस्य कुजभे दृष्टिः ॥ । द्विपदचतुष्पदभागिनमत्यटनं व्यायताङ्गमिह पुरुषम् । प्राज्ञं नरेन्द्रसचिवं करोति सूर्येक्षितो जीवः ॥ ३१ ॥ अतिधनमतीव मधुरं जननीदयितं प्रियं च युवतीनाम् । अत्युपभोगं कुरुते चन्द्रेण निरीक्षितो जीवः ॥ ३२॥ दयितं बालस्त्रीणां प्राशं शूरं च धनसमृद्धं च । सुखिनं नरेन्द्र पुरुषं भृगुभे जीवो रुधिरदृष्टः ॥ ३३॥ प्राज्ञं चतुरं मधुरं सुधनं विभवान्वितं गुणसमृद्धम् । सुरुचिरशीलं कान्तं जनयति बुधवीक्षितो जीवः ॥ ३४ ॥ अतिललितमति च धनिनं परभूषणधारिणं मृजाशीलम् । वरशयनं वरवसनं भृगुभे भृगुवीक्षितो जीवः ॥ ३५ ॥ प्राज्ञं बहुधनधान्यं महत्तरं ग्रामनगरपुरुषाणाम् । मलिनमरूपमभार्यं कुरुते सौरेक्षितो जीवः ॥ ३६॥
॥ इति जीवस्य भृगुभे दृष्टिः ॥ आय ग्रामश्रेष्ठं कुटुम्बिनं दारपुत्रधनयुक्तम् । बुधभे दिनकरदृष्टस्त्रिदशगुरुमानवं कुरुते ॥ ३७॥ चन्द्रक्षितस्तु कुरुते वसुमन्तं मातृवर्लभं धन्यम् ।
सुखयुवतिपुत्रवन्तं सुरगुरुरतिरूपमनुपमं बुधभे ॥ ३८ ॥ १ धनिनं. २ त्याढ्यं. ३ ङ्गिनं पुरुषम्. ४ सुभगं. ५ दारपुत्रगृहयुक्तम्. ६ मातृवत्सलं.
Aho ! Shrutgyanam