________________
सप्तविंशोऽध्यायः ।
शाश्वतसुलब्धविषयं चिंत्रितगात्रं धनान्वितं कुरुते । धरणिसुतेक्षितदेहस्त्रिदशगुरुः संमतं लोके ॥ ३९ ॥ कुरुते ज्योतिषकुशलं बहुसुतदारं च सूत्रकारं च । अतिशयविरूपवाक्यं बुधमे सौम्येक्षितो जीवः ॥ ४० ॥ देवप्रासादानां कृत्यकरं वेशदारभोक्तारम् । हृदयहरं नारीणां कुरुते शुक्रेक्षितो जीवः ॥ ४१ ॥ श्रेणीगणराष्ट्राणां पुरोगमं ग्रामपत्तनानां च । जनयति शनिना दृष्टः सुतनुं जीवो नरं बुधभे ॥ ४२ ॥ ॥ इति जीवस्य बुध दृष्टिः ॥
૮
रविष्टः शशिभवने विख्यातं ह्यग्रगं समूहानाम् । सुखधनदारविहीनं पश्चादाढ्यं गुरुः कुरुते ॥ ४३ ॥ अत्यर्थं द्युतिमन्तं नृपतिं बहुकोशवाहनसमृद्धम् । उत्तमयुवतीपुत्रं जनयेच्छशिभे गुरुर्हिमगुदृष्टः ॥ ४४ ॥ कौमारदारमाढ्यं हेमालङ्कारभागिनं प्राज्ञम् । शूरं सव्रणगात्रं रुधिराङ्गनिरीक्षितो गुरुः कुरुते ॥ ४५ ॥ बान्धवमात्रनिमित्तं धनिनं कलहान्वितं विगतपापम् । जनयति बुधेन दृष्टः प्रत्ययिनं मत्रिणां जीवः ॥ ४६ ॥ बहुदारं बहुविभवं नानालङ्कारभागिनं सुखिनम् । भृगुतनयदृष्टमूर्तिः सुभगं पुरुषं गुरुः कुरुते ॥ ४७ ॥ सौरेण दृष्टमूर्तिर्महत्तरं ग्रामसैन्यनगराणाम् । वाचाटं बहुविभवं वार्धक्ये भोगभागिनं जीवः ॥ ४८ ॥ ॥ इति कटके जीवदृष्टिः ॥
सिंहे दयितं ख्यातं सतां च नृपतिं महाधनसमृद्धम् । जनयति दिनकरदृष्टस्त्रिदशगुरुर्नरमतीव हि सुशीलम् ॥४९॥ अतिसुभगमति च मलिनं स्त्रीभाग्यैरतिसुभगमत्याढ्यम् । लेये चन्द्रसुदृष्टो जितेन्द्रियं जनयति सुरेज्यः ॥ ५० ॥
१ विजयं . २ विकृत ३ प्रसादसुमुखं. ४ प्रत्यायकसमन्त्रिणं. ५ स्त्रीभाग्यैरुपचितार्थमत्याढ्यम्.
Aho! Shrutgyanam