________________
4
सारावली ।
सत्यं सतां गुरूणां विशिष्टकमीणमुंग्रमतिनिपुणम् । शुद्धं शूरं क्रूरं गुरुरिह भौमेक्षितः सिंहे ॥ ५१ ।। गृहवास्तुज्ञानरतं विज्ञानगुणान्वितं रुचिरवाक्यम् । सिंहे मत्रिणमय्यं बुधेक्षितो विश्रुतं जीवः ॥५२॥ दयितं स्त्रीणां सुभगं भूपतिसत्कारसत्कृतं पुरुषम् । सितदृष्टः सुरपूज्यो जनयति सिंहे महासत्वम् ॥ ५३॥ बहुकथनमधुरवचनं सुखरहितं चित्रभागिनं तीक्ष्णम् । अमरस्त्रीतुल्यसुखं सिंहगुरुः सौरसन्दृष्टः ॥ ५४ ॥
॥ इति सिंहस्थजीवदृष्टिः ॥ नृपतिविरुद्धं जनयति विबुधगुरुः संस्थितः स्वगृहे । रविदृष्टः परितप्तं धनबन्धुजनेन परिमुक्तम् ॥ ५५ ॥ नानाविधसौख्ययुतं स्वगृहे चन्द्रेक्षितो जीवः । अतिसुभगं युवतीनां मानधनैश्वर्यगर्वितं कुरुते ॥ ५६ ॥ सङ्ग्रामे विकृताङ्गं क्रूरं वधकं परोपताकरम् । जनयति कुजेन दृष्टो देवगुरुनष्टपरिवारम् ॥ ५७ ॥ मत्रिणमथ नृपतिं वा सुतधनसौभाग्यसौख्यसम्पन्नम् । स्वगृहे बुधेन दृष्टः सकलानन्दं गुरुः कुरुते ॥ ५८ ॥ सुखिनं धनिनं प्राज्ञं व्यपगतदोषं चिरायुषं सुभगम् । स्वगृहे सितेन दृष्टो लक्ष्मीपरिवेष्टितं गुरुः पुरुषम् ॥ ५९॥ मलिनमतीव च सुभगं ग्रामपुरश्रेणिधिकृतं दीनम् । स्वगृहगुरुः शनिदृष्टो जनयति सुखभोगधर्मपरिहीनम् ॥६०॥
॥ इति खगृहे दृष्टिः ॥ प्राज्ञं पृथिवीपालं सौरगृहे भानुना च संदृष्टः । प्रकृतिसमृद्धं जनयति बहुभोगसमन्वितं सुविक्रान्तम् ॥६१॥ पितृमातृभक्तमायें कुलोद्भवं प्राज्ञमाढ्यमादेयम् । चन्द्रक्षितस्तु जीवः सुशीलमतिधार्मिकं शनिभे ॥ ६२ ॥
१ मय्य. २ परोपकारपरम्. ३ दृष्टः स्वगृहगुरुः. ४ सभयं. ५ प्रकृतिसमुत्थं. ६ सुख.
Aho ! Shrutgyanam