________________
अष्टाविंशोऽध्यायः। शूरं नरेन्द्रयोधं गर्वितमोजस्विनं सुवेपं च । विख्यातमार्यमान्यं शनिभे वक्रेक्षितो जीवः ॥ ६३॥ कामरतिं गणमुख्यं मानवमथ सार्थवाहमाढ्यं वा । ख्यातमतिमित्रवन्तं बुधसंदृष्टो गुरुः शनिभे ॥ ६४ ॥ भोज्यान्नपानविभवं वरगृहशयनासनोत्तमस्त्रीकम् । आभरणवसनमन्तं शनिभे शुक्रेक्षितो जीवः ॥ ६५ ।। अनुपमविद्यावृत्तं महत्तरं देशपार्थिवं शनिभे । द्विपदचतुष्पदमाढ्यं भोगिनमथ सौरवीक्षितो जीवः ॥६६॥ इति कल्याणवर्मविरचितायां सारावल्यां गुरुचारो नाम सप्तविंशोऽध्यायः ।
अष्टाविंशोऽध्यायः। नैशान्धो बहुदोषो विरोधशीलः पराङ्गनाचोरः । वेश्यावनाद्रिचारी स्त्रीहेतोबन्धनं प्राप्तः ॥१॥ क्षुद्रः कठोरचोरश्वमूपुरश्रेणिवृन्दनाथश्च । मेष स्याद्भगुतनये नो विश्वासी प्रगल्भश्च ॥ २ ॥ बहुयुवतिरत्नसहितः कृपीवलो गन्धमाल्यवस्त्रयुतः । गोकुलजीवी दाता स्वबन्धुभर्ता सुमूर्तिश्च ॥३॥ आत्यस्त्वनेकविद्यो बहुप्रदः सत्वहितकारी । वृषभे गुणैः प्रधानः परोपकारी सिते भवति जातः ॥ ४ ॥ विज्ञानकलाशास्त्रः प्रथितः सततं सुमूर्तिगः कामी । आलेख्यलेख्यनिरतः काव्यकरः स्यात् प्रियः साधुः ॥५॥ धृतगीतनृत्तविभवः सुहृजनाढ्यः सुरद्विजानुरतः । संरूढस्नेहो वै मिथुनस्थे भार्गवे भवति ॥ ६ ॥ रतिधर्मरतः प्राज्ञो बली मृदुर्गुणवतां प्रधानश्च । आकासितैः सुखार्थैर्युक्तः प्रियदर्शनः सुनीतिश्च ॥ ७॥ योषित्पानप्रभवाधिभिरधिकं प्रपीडितो मनुजः । शुक्रे कर्कटसंस्थे स्ववंशभवदोषसन्तप्तः ॥ ८॥
मति, २ विज्ञानकलाशास्त्रप्रतीतसत्यस्थितो वाग्मी. ३ स्मृति.
Aho! Shrutgyanam