SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९० सारावली । युवतिजनोपासनको लब्धसुखद्रविणसम्प्रमोदश्च । लघुसत्वः प्रियबन्धुर्विचित्रसौख्यश्च दुःखी च ॥ ९ ॥ उपकारी च परेषां गुरुद्विजाचार्यसंमतो निरतः । सिंहस्थे भृगुतनये बहुचिन्तास्वनभियोगः स्यात् ॥ १० ॥ लघुचिन्तो मृदुनिपुणः परोपसेवी कलाविधिज्ञश्च । स्त्रीसम्भाषणमधुरः प्रणयनगणनार्थकृतयत्नः ॥ ११ ॥ नारीषु दुष्टरतिषु प्रणयी दीनो न सौख्यभोगयुतः । कन्यायां भृगुतनये तीर्थसभापण्डितो जातः ॥ १२ ॥ श्रमलब्धधनः शूरो विचित्रमाल्याम्बरो विदेशरतः । नैपुणरक्षणकुशलः कर्मसु चपलः सुदुष्करेषु तथा ॥ १३ ॥ आढ्यो रुचिरसुपुण्यो द्विजदेवार्चनविलब्धकीर्तिश्च । शुक्रे तुलाधरगते भवति पुमान् पण्डितः सुभगः ॥ १४ ॥ विद्वेपरतिनृशंसो विमुक्तधर्मा विकत्थनोऽतिशठः । सहजविरक्तो धन्यो विपन्नशत्रुस्तथा पापः ॥ १५ ॥ आर्यः कुलटाद्वेषी वधनिपुणो बह्वृणो दरिद्रश्च । अलिनि सिते भवति पुमान् गर्हितशीलः सुगुह्यगदः ॥ १६ ॥ सद्धर्मकर्मधनजैः फलैरुपेतो जगत्प्रियः कान्तः । आर्यः कुलब्धशब्दो विद्वान् गोमानलंकरिष्णुश्च ॥ १७ ॥ सद्वित्तसारसुभगो नरेन्द्रमन्त्री सुचतुरोऽपि । पीनोचतनुः पूज्यः सतां समूहस्य धनुषि कवौ ॥ १८ ॥ व्ययभयपरिसन्तप्तो दुर्बलदेहो जराङ्गनासक्तः । हृद्रोगी धनलुब्धो लोभानृतवञ्चनो निपुणः ॥ १९॥ क्लीबो विपन्नचेष्टः परार्थचेष्टः सुदुःखितो मूढः । मकरे दानवपूज्ये क्लेशसहो जायते पुरुषः ॥ २० ॥ उद्वेगरो गतप्तः कर्मसु विफलेषु सर्वदाभिरतः । परयुवतिगो विधर्मा गुरुभिः पुत्रैश्च कृतवैरः ॥ २१ ॥ १ जनोपासनया. २ कुलार्थ. ३ दार. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy