________________
अष्टाविंशोऽध्यायः । स्नानोपभोगभूषणवस्त्रादिनिराकृतो मलिनः । कुम्भधरे भृगुपुत्रे भवति पुमान्नात्र सन्देहः ॥ २२ ॥ दाक्षिण्यदानगुणवान् महाधनोऽधःकृतारिपक्षश्च । लोके ख्यातः श्रेष्ठो विशिष्टचेष्टो नृपतिदयितः ॥ २३॥ वाग्बुद्धियुतोदारः सज्जनपरिलब्धविभवमानश्च । स्वादेयवचा मीने वंशधरो ज्ञानवान् शुक्रे ॥ २४ ॥ स्त्रीहेतोदुःखात युवतिनिमित्ताद्विनष्टधनसौख्यम् । कुजभवने रविदृष्टो जनयति शुक्रो नृपं प्राज्ञम् ॥ २५ ॥ उद्वन्धनमतिचपलं कामातुरमधमयुवतिभर्तारम् । जनयति भृगोरपत्यं रजनीकरवीक्षितं कुजभे ॥ २६ ॥ धनसौख्यमानरहितं परकर्मकरं मलिनचेष्टम् । जनयति रुधिरक्षेत्रे रुधिरेण निरीक्षितः शुक्रः ॥ २७ ॥ मूर्ख धृष्टमनार्य स्वबन्धुपरिवादकं विनयहीनम् । चोरं क्षुद्रं क्रूरं बुधदृष्टो भार्गवः कुरुते ॥ २८॥ सुनयनमुदारदानं सुशरीरं व्यायतं बहुसुतं च । त्रिदशगुरुदृष्टमूर्तिर्जनयति रुधिरालये शुक्रः ॥ २९ ॥ अतिमलिनमलसमटनस्वभिमतजनसेवकं कुरुते । भृगुतनयो रुधिरगृहे दिनकरपुत्रेण वीक्षितश्चोरम् ॥ ३०॥
॥इति कुजभे दृष्टिः ॥ दिनकरदृष्टः शुको वरजायाभोगिनं धनसमृद्धम् । जनयत्युत्तमपुरुषं स्त्रीहेतोनिर्जितं स्वगृहे ॥ ३१ ॥ परमकुलीनापुत्रं सुखधंनदानैः सुखैरुपेतं च । अत्यार्यमतिं कान्तं स्वगृहे चन्द्रेक्षितः शुक्रः ॥ ३२ ॥ दुःशीलाभतीरं प्रमदाहेतोश्च नष्टगृहदारम् । जनयति भृगुनन्दकरो मदनवशं वक्रसन्दृष्टः ॥ ३३ ॥ कान्तं मधुरं सुभगं सुखधृतिमतिसंयुतं विपुलसत्वम् ।
जनयति बुधेन दृष्टः सर्वगुणसमन्वितं ख्यातम् ॥ ३४ ॥ १ दारं. २ मधन. ३ सुखधनमानैः सुतैरुपेतं. ४ अति च कान्तं.
Aho ! Shrutgyanam